Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 366
________________ २२ पदार्थदीपिका | धूमे व्याप्तेरालो के पक्षधर्मतायाश्च ज्ञानस्य सत्वात् । न चैकtat भगावगाहि ज्ञानं कारणमिति वाच्यम् । धूमो वन्हिव्याप्यो द्रव्यवान् पर्वत इति ज्ञानादप्यनुमित्यापत्तेः । द्रव्यत्वेन धूमस्यैव पक्षवृत्तित्वभानात् । न चैकेन धूमत्वरूपेण व्याप्तिपक्षधर्मताज्ञाने हेतू । वन्हिव्याप्यधूमवान् पर्वत इत्याप्तवाक्यजपरामर्शात् अनुमित्यनापत्तेः । तस्मात्परामर्श एवावश्यकः । सोयं परामर्शो व्याप्तिज्ञानकपेण यत्र स्वस्यैवोत्पन्नस्तत्रानुमितिरपि स्वस्यैव भवति, तदेव स्वार्थानुमानम् । यत्र तु स्वयं बुध्वा शब्देन परं बोधयति, तत्परार्थानुमानम् । तत्र प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्याः पञ्चावयवाः । तत्र पर्वतो व हिमानिति साध्यविशिष्टपक्षबोधकं वचनं प्रतिज्ञा कुत इत्याकां क्षाशमकं धूमादिति पञ्चम्यन्तं लिङ्गवचनं हेतुः धुमो ऽस्तु वन्हिर्मास्त्वित्याशङ्काशमकं यत्र धूमस्तत्राग्निर्यथा महानस इत्यादि सव्याप्तिकं दृष्टान्तवचनमुदाहरणं, हेतूदाहरणाभ्यां प र्यवसितव्याप्तिविशिष्टपरामर्शजनकं तथा चार्य, वन्हिव्याप्यधूमवानयमिति वा उपनयः । पक्षे साध्योपसंहाररूपं तस्मात्तथेति वाक्यं निगमनम् । एतएव प्रतिज्ञापदेश निदर्शनानुसन्धा नमत्याम्नायशब्देन वैशेषिकैरुच्यन्ते । अपदेशो हेतुः । शेष क्रमेण ज्ञेयम् । मीमांसकास्तु त्रय एवावयवाः प्रयोज्या उदाहरणान्तास्तदाया वा इत्याहुः । न च परार्थानुमाने शाब्दवोधात्मक एव साध्यनिर्णयो नानुमितिरिति वाच्यम् । वादिवाक्यस्याप्रामाण्याशङ्कास्कन्दितखेन निर्णयाजनकत्वात् पञ्चावयवपूर्त्यनन्तरं मनसा बाधकाभावप्रतिसन्धाने सति वादिकारितव्याप्तिज्ञानादिवशान्मानसपरामर्शोत्तरमनुमित्यभ्युपगमात् इति दिक् । तदिदं - लिङ्गं त्रिधा केवलान्वयिकेवलव्यतिरेक्यग्वय

Loading...

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398