Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 347
________________ पदार्थदीपिका । तेजस्वजातिमदुष्णस्पर्शवद्वा परप्रकाशरूपवदा तेजः॥ नित्यमनित्यं च । परमाणुरूपं नित्यं कार्यरूपमानित्यम् । तदपि त्रिधा शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं चक्षुः रूपतज्जातितद्वद्रव्यतद्वतजातिगुणकर्मणां ग्राहकं कृष्णताराप्रवति । तत्तैजसमेव, रूपादिषु पञ्चसु रूपस्यैः वाभिव्यञ्जकत्वात् आलोकवत् । पूर्ववद्धरीतक्यामलकादौ व्यभिचारवारणायैवकारः ॥ ___ ननु रूपवान् परमाणुश्चक्षुषा कुतो न गृह्यते । चाक्षुषप्रत्यक्षे विषयद्रव्यगतं रूपं महत्त्वं हेतुः परमाणौ तन्नास्तीति चे, त्ताकाशात्मादयः कुतो न गृह्यन्ते । विषयगतं रूपं महत्व चेति द्वयमपि हेतुरिति चे,त्तार्ह तप्तवारिस्थं तेज उष्मा वा कुतो न गृह्यते । उच्यते । द्रव्यचाक्षुषप्रत्यक्षे विषयगतमुद्भतरूपं महत्त्वं च कारणं, परमाणुन महानाकाशो न रूपवान् तप्तवारिस्थं तेजश्च नोद्भूतरूपवत् । तद्रूपस्यानुद्भतत्वात् । एवं चा. क्षुषप्रत्यक्ष विषयगत उद्भूतस्पोंपि हेतुः । पहिरिन्द्रियजन्यद्र. व्यप्रत्यक्षमात्रएव महत्वरूपस्पर्शाणां लाघवाद्धेतुत्वात् । तथा च प्रदीपादिमभाया रूपमात्र गृह्यते तेन तदाश्रयद्रव्यमनुमीय. तइति सिद्धान्तः । प्रभाशब्दोपि तद्रूपवाचक एवेत्याहुः ॥ - नन्वेवमपि अन्धकारस्थो घटो ऽपि गृह्येत द्रव्यचाक्षुषे आ. लोकसंयोगोपि हेतुरिति चेत्, न, चतूरूपस्य सुवर्णरूपस्य वा अंधकारोप संयोगसत्त्वादिति चेन्न । द्रव्यप्रत्यक्ष उद्भूतानभिभूतरू पालोकसंयोगस्य हेतुत्वात् । चतूरूपस्योद्भूतत्काभावात् मुवर्णरू. पस्याभिभूतत्वात्तत्संयोगेपि न प्रत्यक्षम् । विषयश्चतुर्दा भौम दिव्यमौदर्यमाकरजंच । पार्थिवमात्रेन्धनं तेजो भौममग्न्यादि । अ. बिन्धनं तेजो दिव्यं विद्युदादि । उभयेन्धनमौदर्य भाक्षितान्नस्य

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398