Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 352
________________ पदार्थदीपिका | गौरवात् । तस्मादुद्भूतानभिभूतरूपवदा लो का भाव समूहस्तमः ॥ गुणत्वजातिमन्तो गुणाः ॥ ते च रूपरसगन्धस्पर्श सङ्ख्यापरिमाणपृथक्त्वसंयोगविभा गपरत्वापरत्वगुरुत्वद्रवत्वस्नेहबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधिर्मसंस्कारशब्दाश्चतुर्विंशतिरेव || तत्र वस्त्वजातिमद्रूपम् ॥ · पृथिव्यादित्रवृत्ति । शुक्लपीतहरित रक्तकृष्ण कपिल चित्र भेदात्सतधा । तदवान्तरजातयस्तु असङ्ख्याताः । तत्र शुक्लभास्वरं तेजसि । परप्रकाशकतावच्छेदकजातिविशेषो भास्वरत्वं तद्वद् भास्वरम् । शुक्लमेवाभास्वरमपाकजमप्सु षड्विधमचित्रम् | पाकजं पृथिवीपरमाणौ सप्तविधमपि अपाकजमेव पृथिवीद्व्यणुकादौ । तत्राक्यविरूपं कारणम् । एवं रसादावपि । मीमांसकास्का एव नीलपीतारुणादिव्यक्तयो नित्याश्च । ताश्चोपद्यमानघटाद घटत्वादिवत्संसृज्यन्ते इति रूपवान् घट इत्यादिप्रतीतिः । घटादिनाशे च व्यक्तयन्तरे घटत्वादिवदेव वर्त्तन्तइत्याहुः । तन्न । एवं हि घटत्वादिवज्जातित्वापत्तेः । नित्यमेकमनेकसमवेतं सामान्यमिति तल्लक्षणयोगात् । इष्टापत्तौ नीलनीकतरादिव्यवहारानापत्तेः । नहि भवति गोव्वतरो गोत्वतम इति । किं नीलद्रव्यस्य पाकेन रक्तताया दर्शनस्थळे पूर्वनाशस्याऽकामेनाप्यभ्युपेयत्वान्न किं चिदेतत् ॥ रसत्वजातिमान् रसः ॥ · पृथिवीजलवृत्तिः । मधुराम्लकटुतिक्तकषायलवणभेदात् घोढा । मधुरो पाकजो sप्सु षड्विधोपि । पाकजः पृथिवीपरमाणौ द्वयणुकादावपाकजः ॥ गन्धत्वजातिमान् गन्धः ॥

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398