Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 305
________________ उपमितौ स. ७ प्र. ॥ ६६१ ॥ उ. भ. ५६ Jain Education Inte भूतयः । यच्च पौद्गलिकं किंचिञ्चित्ताबन्धविधायकम् ।। ६२५ ॥ सदागमस्तदाचष्टे, यथेदं क्षणभङ्गुरम् | दुःखात्मकं मलक्लिन्नं, निःस्वभावं बहिश्चरम् || ६२६ ॥ तदत्र मूर्च्छा मा कार्षीर्मा कार्षीर्धनवाहन ! । आत्मा ते ज्ञानसद्वीर्यदर्शनानन्दपूरितः ॥ ६२७ ॥ ततस्तत्रैव युक्तस्ते, चित्ताबन्धो नरोत्तम ! । येन त्वं निर्वृतिं यासि, सतताहादसुन्दरम् || ६२८ ॥ चतुर्भिः कलापकम् । महामोहस्तु मे सर्व, तद्राज्यं ताच सम्पदः । गात्रं शब्दादिभोगांश्च यच्चान्यदपि तादृशम् ॥ ६२९ । स्थिरं सुखात्मकं चारु, निर्मलं हितमुत्तमम् । इत्येवं कथयत्युच्चैरुपदेशं ४ च यच्छति ।। ६३० ॥ युग्मम् । यदुत - नास्ति जीवो न वा देवो, न मोक्षो न पुनर्भवः । न पुण्यपापे सद्भुते, भूतमात्रमिदं जगत् ॥ ६३१ ॥ अतो यावदयं देहो, विद्यते घनवाहन ! । यथेष्टचेष्टया तावत्पिब खाद दिवानिशम् ॥ ६३२ ॥ सद्भोगैः प्रीणयाऽऽत्मानं, | मानयामललोचनाः । सुखं भुंक्ष्व यथाकामं, मा मूढवचनं कृथाः ॥ ६३३ ॥ परिग्रहस्तु मां ब्रूते, यथा भो घनवाहन ! । हिरण्यधा| न्यरत्नादिसम्भारं कुरु यत्नतः ॥ ६३४ ॥ यः प्राप्तं पालयत्यर्थमप्राप्तं ढौकयत्यलम् । न च सन्तोषमादत्ते, तस्य सौख्यम - नारतम् || ६३५ || अहं तु त्रितयस्यापि वाक्यमाकर्ण्य तादृशम् । ईषदोलायितश्चित्ते, यावज्जातः सुलोचने ! ।। ६३६ ॥ महामोहबलेनासौ, ज्ञानसंवरणो नृपः । तावद्भयं परित्यज्य, मम पार्श्वे व्यवस्थितः ॥ ६३७ ॥ ततः सदागमेनोक्तं यत्तद्वाक्यं मनोहरम् । तस्यार्थो न मया ज्ञातस्तेन चित्तं न रञ्जितम् ॥ ६३८ ॥ यदाहतुः पुनर्भद्रे !, महामोहपरिग्रहौ । तलनं मामके चित्ते, यथा रङ्गः सुपासते ।। ६३९ ।। ततोऽहं तत्परित्यज्य, देववन्दनपूजनम् । नमस्कारादिपाठं च, संजातो भोगमूच्छितः ॥ ६४० ॥ दानं च साधु| वर्गादेर्विनिवार्य ततः परम् । धनसङ्ग्रहणे रक्तः, पीडयामि करैर्जनम् ॥ ६४१ ॥ सर्वसांसारिकार्थेषु, मूर्च्छा गाढं विवर्धते । स महामोहवीर्येण, रोचते न सदागमः ॥ ६४२ ॥ तथाऽपि परिग्रहस्य वीर्येण, सर्वथा न्यूनचेतसः । न ममेच्छा तदा पूर्णा, प्राप्तैः सर्वधनै For Private & Personal Use Only सदागममहामोह परिग्रहोदितिः ॥ ६६१ ॥ v.jalnelibrary.org

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422