Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 377
________________ उपमिती अ.८-प्र. ॥७३३॥ वा। कर्मशुद्धेन भावेन, धर्मबुद्ध्याऽन्यथापि वा ॥ ४८२ ॥ प्राप्तं तदापि तद्भद्रे!, सत्पुरं विबुधालयम् । किं तु किल्बिषिकावासे, जातो व्यन्तरपाटके ।। ४८३ ।। त्रिभिर्विशेषकम् ।। तथा-कृत्वा बालतपो घोरं, सरोषो वैरतत्परः । तपोगौरवयुक्तोऽहं, गतो भवनवासिषु ॥ ४८४ ॥ तथा-तापसव्रतमासाद्य, तदनुष्ठानभावतः । ज्योतिश्चारिषु नीतोऽहं, बहुशो निजभार्यया ॥ ४८५ ॥ तथा प्राप्य भागवतीं दीक्षा, तपोनिष्टप्तदेहकः । युक्तः क्रियाकलापेन, ध्यानाभ्यासपरायणः ॥४८६।। केवलं-सर्वज्ञभाषितं किंचित्पदं वाक्यमथाक्षरम् । अश्रद्दधानो मूढत्वात्सम्यग्दर्शनवर्जितः ।। ४८७॥ गतोऽहं भूरिशो भद्रे., सर्वप्रैवेयकेष्वपि । आगतो मानवावासं, भूयो भूयोऽन्तराऽन्तरा । ४८८ ।। युग्मम् । अस्य च भ्रमणस्यैवं, भद्रे! जानीहि कारणम् । तत्सिंहाचार्यताकाले, शैथिल्यं यन्मया कृतम् ॥ ४८९॥ इतरथा -तदैव निर्मलीकृत्य, चित्तवृत्तिं निहत्य च । रिपुवर्ग स्थितो राज्ये, गतः स्यां निर्वृतावहम् ॥ ४९० ।। तदिदमखिलं जातं, भूयो भ्रमलणलक्षणम् । निजाया दुष्टचेष्टायाः, फलं नान्यस्य कस्यचित् ।। ४९१ ।। अगृहीतसङ्केतयोक्तं न केवल मिदं तात!, समस्तं यन्निवेदि तम् । त्वयेह बत तत्सर्व, निजं चेष्टाविजृम्भितम् ॥ ४९२ ।। तथाहि-यद्यवर्तिष्यथास्तात!, सर्वदा त्वं निरापदि । तस्य सुस्थितराजस्य, सदाज्ञायां स्थिराशयः ॥ ४९३ ॥ नाभविष्यत्ततो दीर्घा, तवेयमतिदारुणा । भीषणा श्रूयमाणाऽपि, तीव्राऽनर्थपरंपरा ॥ ४९४॥ युग्मम् । संसारिजीवेनोक्तं-चारु चारूदितं सुभ्र!, संप्रति त्वं हि वर्तसे । नाम्नाऽगृहीतसङ्केता, भावतस्तु विचक्षणा ॥ ४९५ ॥ तदाकर्णय चार्वङ्गि!, साम्प्रतं येन हेतुना । जातोऽहमीदृशावस्थस्तस्कराकारधारकः ॥ ४९६ ।। अगृहीतसङ्केतयोक्तं-निवेदयतु भद्रः, संसारिजीवेनोक्तं-तस्माद्वैवेयकादन्यादानीतोऽहं महेलया । पुरीं मनुजगत्यन्तःपातिनी क्षेमनामिकाम् ॥ ४९७ ॥ इतश्च जानात्येव भवती यथाअनेकापणमालाढ्ये, भूरिविस्तारसुन्दरे । महाविदेहरूपेऽत्र, हट्टमार्गेऽतिदूरगे ॥ ४९८ ॥ वसन्ति चित्ररूपाणि, सत्पुराण्यन्तराऽन्तरा ।। अनुसुन्दरजन्मादि उ. भ. ६२ Jan Education Intematon For Private Personal use only

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422