Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 417
________________ उपमितौ अ.८-प्र. ॥७७३॥ "दिपर्यायेष्वपरापरनाममाला नेयमास्थास्थानं विवेकिनां लोकस्थितिकालपरिणतिकर्मपरिणामस्वभावभवितव्यतानिजभव्यतादिपरस्परसव्य"पेक्षकारणसमुदायजनितः समस्तोऽप्यस्य भवप्रपञ्चः तत्परिपाकलभ्यस्तु विच्छेदको प्रपञ्चस्यास्य परमेश्वरानुग्रहः, स हि कारणं विम"लज्ञानस्य तद्वलादेवायमात्मा जानीते यदुत परमेश्वराज्ञाकरणाकरणजनिते मम सुखदुःखे भवमोक्षौ च लेश्याविशोधनं तदाज्ञाकरणं | "लेश्यामालिन्यजननं तदाज्ञाविराधनं, ततः प्रवर्तते लेश्याविशोधकेषु सद्भूतगुणेषु निवर्तते लेश्यामालिन्यजनकेभ्यः समस्तदोषेभ्यः, "ततोऽत्यन्तविशोधितां लेश्यामपि विहाय भवत्यलेश्यः ततः स्वरूपे स्थितः स एवात्मा संपद्यते परमेश्वरः परमात्म"ति, यथा च तदनुसुन्दरचरितं तस्य भगवतः समन्तभद्रसूरेः प्रत्यक्षं महाभद्रा च कथ्यमानं तद्बुध्यते स्म तथा संसारिजीवचरितं भगवतः सर्वज्ञागमस्य प्रतीतं सुसाधवश्च निवेद्यमानं प्रज्ञाविशालतया स्वत एव बुध्यन्ते परेभ्यश्च प्रतिपादनसमर्था भवन्ति, यथा च तेन पौण्डरीकेण सुललितामुद्दिश्य कथ्यमानं लघुकर्मतया प्रसंगेनाप्याकर्णयता तदनुसुन्दरराजचरितमवगतं विहितं च तदनुगमानुरूपं तथा यूयमपि "भो "भव्या इदं संसारिजीवचरितमनुभवागमसिद्धमवबुध्यध्वं अवबोधानुरूपं चाचरत विरहयत कषायान् स्थगयतास्रवद्वाराणि निराकुरुते"न्द्रियगणं दलयत सकलं मनोमलजालं पोषयत सद्भूतगुणगणं मुञ्चत भवप्रपञ्चं यात तूर्ण शिवालयं येन यूयमपि सुमतयो भव्यपु"रुषा भवथ” । अथ नास्ति भवतां तादृशी लघुकर्मता ततो यथा सुललिता भूयो भूयः प्रचोदिता सप्रणयं मुहुर्मुहुनिर्भसिता बहुविधमुपालब्धा पुनः पुनः स्मारिता सती गुरुकर्मिकापि प्रतिबुद्धा तथा बुध्यध्वं, केवलं तथा प्रतिबोध्यमाना अगृहीतसङ्केता भविष्यथ यूयं गलतालुशोषका गुरूणां तथापि गुरुभिः प्रतिबोधनीया एव युष्माभिरपि प्रतिबोद्धव्यमेव, यथा स्वदुश्चरितपश्चात्तापेन सद्भूतगुणपक्षपातसारो निखिलकर्ममलविलयकारी सदागमबहुमानस्तस्याः सुललितायाः प्रतिबोधकारणं संपन्नः तथा भवद्भिरपि तथैव स विधेयो येन संपद्यते भवतामपि विशिष्टस्तत्त्वावबोध इति । इह च-श्रेयांसब्रह्मदत्तादिजातिस्मरणतुल्यकः । ज्ञेयोऽनुसुन्दरादीनां, तदुत्पादः सयु अन्तिम उपदेशः असंख्य भवगोच. रता जातिस्मृते ॥७७३ ॥ Jain Education in For Private sPersonal use Only Marjainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422