Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
अ. ८-प्र.
॥ ७७४ ॥
Jain Education Inter
|क्तिकः ॥ ९८६ ॥ यतश्चागमे मतिवासनायाः - असङ्ख्यकालोऽनुज्ञातो, वचो नास्ति च वारकम् । सुभूरिभवभाषेऽपि तस्मान्नास्ति विरोधिता ॥ ९८७ ॥ आदितः पुनरारभ्य प्रस्तावभावार्थोऽयम् — कुशल कर्मविपाकवशादहो, जगति किंचिदिहास्ति न दुर्लभम् । सक - | लभोगसुखाधिकमुञ्चकैः, शमसुखं प्रतिभाति च धीमताम् ॥ ९८८ ॥ परमकोटिगतोऽपि पुनर्नरः, प्रबलतामुपगम्य निपात्यते । खलमलैरतिभीमभवोदधौ, यदि न वेत्ति स तां तदातिताम् ॥ ९८९ ॥ नरकयोग्य कृताशुभकर्मकः, पुनरुपैति शिवं गतकल्मषः । यदि सदागमवोधपरायणः, क्षणमपि प्रकरोति शुभं नरः ॥ ९९० ॥ इदमवेत्य मनोमलवर्जनं, लघु विधाय सदागमसेवनम् । कुरुत तेन हि | याथ शिवं यथाऽऽगमवशादनुसुन्दरपार्थिवः ॥ ९९९ ॥ अन्यच्च - इदमनन्तभवभ्रमसूचकं, मलवशादनुसुन्दरचेष्टितम् । यदिह जातमतः परिकीर्तितं मतिविकाशनकारि सुदेहिनाम् ॥ ९९२ ॥ न च नियोगत एव भवेदियं, गदितपद्धतिरत्र नरे नरे । सकृदवाप्य जिनेन्द्रमतं यतः, शिवमितः प्रगता बहवो नराः ॥ ९९३ ॥ त्रिचतुरेषु भवेषु तथाऽपरे, बहुतमाः पुनरन्यविधानतः । विविधभव्यतया भवदारणं, | निजनिज क्रमतो दधिरे नराः ॥ ९९४ ॥ तदिदमत्र सुगुह्यमहो जना !, हृदि विधत्त परं परमाक्षरम् । मलविशोधनमेव सुमेधसा, लघु विधेयमिहाप्य जिनागमम् ॥ ९९५ ॥ एतन्निःशेषमत्र प्रकटितमखिलैर्युक्तिगभैर्वचोभिः, प्रस्तावे भावसारं तदखिलमधुना शु| बुद्ध्या विचिन्त्य | भो भव्या ! भाति चित्ते यदि हितमनघं चेदमुच्चैस्तरां वस्तत्तूर्णं मेऽनुरोधाद्विदितफलमलं स्वार्थसिद्ध्यै कुरुध्वम् ॥ ९९६ ॥ उत्सूत्रमेव रचितं मतिमान्यभाजा, किंचिद्यदीदृशि मयाऽत्र कथानिबन्धे । संसारसागरमनेन तरीतुकामैस्तत्साधुभिः कृतकृपैर्मयि शोधनीयम् ॥ ९९७ ॥ इत्युपमितिभवप्रपञ्चायां कथायां पूर्वसूचितमीलकवर्णनो नामाष्टमः प्रस्तावः समाप्तः ॥
॥ समाप्तेयमुपमितिभवप्रपञ्चा कथेति ॥
For Private & Personal Use Only
मलविशुद्धौ तात्पर्य
॥ ७७४ ॥
ainelibrary.org

Page Navigation
1 ... 416 417 418 419 420 421 422