Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमिती "अ. ८-प्र.
उपकारिगुरुस्मृतिः
चरद्यः कृपया मदाशये । अचिन्त्यवीर्येण सुवासनासुधां, नमोऽस्तु तस्मै हरिभद्रसूरये ॥ १०१३ ॥ अनागतं परिज्ञाय, चैत्यवन्दनसंश्रया । मदथैव कृता येन, वृत्तिर्ललितविस्तरा ॥ १०१४ ॥ यत्रातुलरथयात्राधिकमिदमिति लब्धवरजयपताकम् । निखिलसुरभवनमध्ये सतत- प्रमदं जिनेन्द्रगृहम् ॥ १०१५ ।। यत्रार्थष्टङ्कशालायां, धर्मः सद्देवधामसु । कामो लीलावतीलोके, सदाऽऽस्ते त्रिगुणो मुदा ॥ १०१६ ॥ तत्रेयं तेन कथा कविना निःशेषगुणगणाधारे। श्रीभिल्लमालनगरे गदिताऽग्रिममण्डपस्थेन ॥१०१७ ॥ प्रथमादर्श लिखिता साध्व्या श्रुतदेवतानुकारिण्या। दुर्गस्वामिगुरूणां शिष्यिकयेयं गुणाभिधया ॥ १०१८ ॥ संवत्सरशतनवके द्विषष्टिसहिते(९६२)ऽतिलखिते चास्याः । ज्येष्ठे सितपञ्चम्यां पुनर्वसौ गुरुदिने समाप्तिरभूत् ॥ १०१९ ॥ ग्रन्थाप्रमस्या विज्ञाय, कीर्तयन्ति मनीषिणः । अनुष्टुभां सहस्राणि, प्रायशः सन्ति पोडश ॥ १०२०॥ समाप्ततामगमदियमुपमितिभवप्रपञ्चा कथा ॥
श्रीमसिद्धसाधुविरचिता समाप्तेयमुपमितिभवप्रपश्चा कथा इति श्रेष्ठि देवचन्द्र लालभाइ जैनपुस्तकोडारे ग्रन्थाङ्कः ४९.
॥७७६॥
Jain Education
For Private
Personal Use Only
wjainelibrary.org

Page Navigation
1 ... 418 419 420 421 422