Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
भक्तपरिज्ञया ॥ ९७६ ॥ ते तु श्रीगर्भराजाद्याः, साधवः सुतपोधनाः । सुमङ्गलाद्याः साध्व्यश्च, देवलोकमुपागताः ॥ ९७७ ॥ किं अ.८-प्र. ||बहुना?-यावद्भिर्जन्तुभिस्तत्र, मनोनन्दनकानने । समन्तभद्रसूरीणां, पादमूलमुपागतैः ॥ ९७८ ॥ इदमाकर्णितं धन्यैरनुसुन्दरचेष्टि-||
तम् । दूरस्थैरपि लेशेन, कौतुकेनापि विस्मितैः ॥ ९७९ ॥ तावतां भव्यजन्तूनां, श्रुतेन जनितं तदा । भवप्रपञ्चविरतं, मनो नूनमनेन ॥७७१॥
|भोः॥ ९८० ॥ त्रिभिर्विशेषकम् । ततः कैश्चित्कृता दीक्षा, कैश्चिद्धर्मो गृहस्थितैः । केचित्सम्यक्त्वमापन्नाः, केचित्संवेगमागताः ॥९८१॥ एवं च स्थिते-भवद्भिरपि विज्ञातमेवं कथयतो मम । भो भो भव्याः सभावार्थमिदं वृत्तं महात्मनः॥ ९८२ ॥ ततोऽनुष्ठीयतां तूर्ण, ग्रन्थकृ. यज्ज्ञातस्यास्य सन्निभम् । येनैष जायते सद्यः, सफलो मे परिश्रमः ॥ ९८३ ॥ यतस्तुल्यः समस्तानां, प्रायः संसारचारिणाम् । जीवा- द्विहितः नामेष वृत्तान्तो, मया योऽत्र निवेदितः ॥ ९८४ ॥ तदेतदपि संश्रुत्य, चरितं निजसन्निभम् । न युज्यतेऽत्र भो भव्या, विधातुमवधीरणां
श्रोतृबोधः ॥ ९८५ ॥ तथाहि-यथाऽसौ पौण्डरीको जम्बूद्वीपे पूर्वविदेहवर्तिनि सुकच्छविजयान्तर्गते शङ्खपुरे कमलिनीश्रीगर्भराजपुत्रतयाऽपि जातस्तेन भगवता समन्तभद्रसूरिणा तस्यैव शङ्खपुरस्य सम्बन्धिनि चित्तरमकाननान्तर्भूते मनोनन्दने चैत्यभवने वर्तमानेन भूरिभव्यानां |पुरतस्तत्पक्षपातेन मनुजगतावेष राजदारकोऽनुकूलाभ्यां कालपरिणतिकर्मपरिणामाभ्यां सुमतिभव्यपुरुषो जनित इतिकृत्वा भविष्यति निःशेषगुणाधार इति ख्यापितस्तदिदं सर्वेषां लघुकर्मणां भव्यमनुष्याणां समानं वर्तते, यतो नानाक्षेत्रोत्पन्ना अपि सर्वे मनुजगतौ वर्तन्ते बहिरङ्गविविधजननीजनका अपि सर्वे परमार्थतस्ते कालपरिणतिकर्मपरिणामयोः पुत्रा भवन्त्येव बहुविधाभिधाना अपि सुमतिभव्यपुरुषत्वं
न व्यभिचरन्तीति सदागमः सर्वदा ख्यापयति, यथा च सा महाभद्रा समन्तभद्रसूरिवचनेनादित एव प्रतिबुध्य प्रव्रजिता सती प्रज्ञाद विशाला जाता तथैवेहोत्तमपुरुषाः सर्वज्ञागमोपदेशात् संजाततत्त्वावबोधाः प्रथममेव साधवः संपद्यन्ते, त एव च परमार्थतः प्रज्ञावि-13
॥७७१॥
Jain Education in
For Private & Personel Use Only
Mainelibrary.org

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422