Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 379
________________ उपमितौ अ. ८- प्र. ॥ ७३५ ॥ Jain Education अथासौ भास्कराकारस्ततोऽस्तं समुपागतः । नलिनी च गता तेन सार्धं माता ममानघा ।। ५१८ ।। ततो यावत्करिष्यन्ति, किल राज्येऽभिषेचनम् । सामन्तास्तावदुत्पन्नं, चक्ररत्नं ममातुलम् ॥ ५१९ ॥ तथा-जातानि शेषरत्नानि, सुन्दराणि त्रयोदश । निधयश्च समायाता, नव यक्षैः सुरक्षिताः ।। ५२० ।। ततोऽयं चक्रवर्तीति मत्वा सर्वे नराधिपाः । गताः किङ्करतां मेऽत्र, सुकच्छविजये तदा ।। ५२१ ॥ ततो निर्जित्य निःशेषं, षट्खण्डं भूमिमण्डलम् । क्षेमपुर्यां स्थितेनैव, प्रतापेन मयाऽर्जितम् ॥ ५२२ ॥ कृतो द्वादश वर्षाणि, द्वात्रिंशद्भिर्महीभुजाम् । सहस्रैरभिषेको मे, किरीटाटोपराजिनाम् ।। ५२३ ॥ ततो देवीसहस्राणां चतुःषष्ट्या सहाखिलाम् । फुहनीलाब्जनेत्राणां भुञ्जानो भोगसंहतिम् ।। ५२४ ॥ कुर्वाणो जनतानन्दं दधानश्चक्रवर्तिताम् । महाभूतिविमर्देन, भूरिकालमहं स्थितः ।। ५२५ ॥ युग्मम् । किं बहुना ? - चतुर्भिरधिकाशीतिपूर्वलक्षाणि लीलया । उद्दामराज्यसम्भोगं कृत्वाऽहं चारुलोचने ! ॥ ५२६ ॥ निर्गतः पश्चिमे काले, स्वपुर्या राजलीलया । षट्खण्डविजयस्यापि, स्वस्य दर्शनकाम्यया ॥५२७॥ पुराकरादिसंकीर्णा, तां पर्यट्य वसुन्धराम् । अहमत्र समायातः सत्पुरे शङ्खनामके ॥ ५२८ ॥ ततश्च - पश्चात्कृत्वा बलं शेषं, राजवल्लभवेष्टितः । प्राप्तश्चित्तरमं चेदमुद्यानं नन्दनोपमम् ।। ५२९ ।। इतश्च – यानि गुणधारणावस्थायामभूवंस्तद्यथा प्रथमो मे धर्मदेशकः कन्दमुनिः तथा वयस्यः कुलंधरो भार्या च मदनमञ्जरी, तान्यप्याखेटितानि भवितव्यतया भ्रमितानि भवचक्रे दर्शितानि सुन्दरा सुन्दररूपेण, ततः स कन्दमुनिः कचित्कृतबहुलिकासम्पर्कः समानीतोऽस्यैव सुकच्छविजयस्यान्तर्भूते हरिपुरे तत्र च भीमरथो राजा तस्य च सुभद्रा नाम महादेवी तयोश्चास्ति | समन्तभद्रो नाम तनयः ततः प्रवेशितोऽसौ कन्दः सुभद्राकुक्षौ निर्गतः क्रमेण जाता दारिका प्रतिष्ठितं तस्या नाम महाभद्रेति । इतश्च समन्तभद्रः संप्राप्य सुघोषमाचार्यं संजातवैराग्यः संभाल्य पितरौ निष्क्रान्तः संपन्नः संपूर्णद्वादशाङ्गधरः स्थापितो गुरुभिः सूरि For Private & Personal Use Only अनुसुन्दरस्य चक्रित्वं कन्दमुनिकुलन्धर४ मदनमञ्जरीणां मेलाः ।। ७३५ ॥ vjainelibrary.org

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422