Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ अ.८-म.
॥७४१॥
वृत्तान्तजातं जानाति भवान् ? इत्येतत्सर्व निवेदयितुमर्हति भद्रः, अनुसुन्दरेणोक्तं-अस्ति तावदागतोऽहमन्यौवेयकात् समुत्पन्नोऽत्र | सुकच्छविजये क्षेमपुर्या युगन्धरनलिनीपुत्रतयाऽनुसुन्दराभिधानः, अत्रान्तरे प्रोत्साहितास्ते भवितव्यतया महामोहादयः, कथं ?-स-12महामोहम्यग्दर्शनदूरस्थो, यावदेषोऽनुसुन्दरः । यतध्वं तावदेवात्र, यूयं भोः स्वार्थसिद्धये ॥ ५३० ॥ इतरथा-कथंचित्तं समासाद्य, परिपोष्य | सामर्थ्य निजं बलम् । भवतां प्राग्वदेवायं, बाधाकारी भविष्यति ।। ५३१ ॥ अन्यच्च-अक्लेशेन वशं याति, साम्प्रतं भवतामयम् । सदोधाथैवृतो भूयो, दुर्ग्रहोऽयं भविष्यति ॥ ५३२ ॥ ततोऽधुना यथाशक्त्या, कृत्वेमं वशवर्तिनम् । चित्तवृत्तिमहाराज्यं, लात यूयं निराकुलाः ॥ ५३३ ॥ ततस्तचोदितैर्भद्रे !, वल्गमा निरङ्कुशैः । बालकालात्समारभ्य, तैरहं परिवेष्टितः ॥ ५३४ ॥ अहं तु तेषां मध्यस्थो, ध्यान्ध्यान्धीभूतचेतनः । विस्मृताशेषसद्वन्धुः, पुनस्तन्मयतां गतः ॥ ५३५ ॥ ततः समस्तैस्तैः पापैः, संप्रयुज्य निजं निजम् । वीर्यं कृतोऽहं भूयोऽपि, पापार्जनपरायणः ॥ ५३६ ॥ कथं ?-कौमारे वर्तमानोऽहं, प्रवृत्तो मांसभक्षणे । मद्यपाने रतो द्यूते, जन्तुसङ्घातपीडने ।। ५३७ ।। यौवने वर्तमानेन, पारदार्यादयस्तथा । लोके प्रभवताऽत्यर्थ, प्रसह्य विहिता मया ॥ ५३८ ॥ तथा—स्थितेन चक्रवर्तित्वे, महारम्भपरिग्रहाः । पापर्द्धयोऽन्यदोषाश्च, निरपेक्षेण सेविताः ॥ ५३९ ।। सर्वत्र मूछितो गृद्धो, विभूतौ विषयेषु च । एतावन्तमहं कालं, स्थितोऽत्यन्तसुखी किल ॥५४०॥ एवं च वर्तमानेन, मया ते भावशत्रवः । विस्मृत्य पूर्ववृत्तान्तं, बन्धुबुद्ध्याऽवधारिताः ॥५४१|| ततस्तैलब्धप्रसरै मलिनतरीकृता चित्तवृत्तिः नितरामभिभूतं चारित्रधर्मराजबलं धारितं (दूरे) निरुद्धमभ्यन्तरे तिरोहितं तत्क्षान्त्यादिकं सुतरामन्तरङ्गमन्तःपुरं बहिर्भावितोऽहं प्रभुभावात् प्रकाशितं कर्मपरिणामराज्यं प्रबलीभूतः पापोदयः वल्गितमुद्दामतया महामोहसैन्यं सं-| ।।७४१॥ | स्थापितानि निजनगरादीनि प्रवृत्ता वोढुं महापूरेण प्रमत्ततानदी विस्तीर्णीभूतं तद्विलसितं प्रत्यग्रीकृतश्चित्तविक्षेपमण्डपः समारिता तृष्णा
Jain Education Inte
For Private & Personel Use Only
M
ainelibrary.org

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422