Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 384
________________ उपमितौ अ. प्र. ॥७४०॥ | यथा भद्र! भगवन्तं सदागमं शरणं प्रतिपद्यस्वेति, ततः समानीतोऽहमेवं वदन्त्या भगवत्समीपं, दृष्टोऽहमेवं वध्यतस्कराकारधारकः स-IN अनुसुन्दमस्तपरिषदा, ममापि भगवन्तमवलोकयतोऽनाख्येयसुखरसनिर्भरतया समागता मूर्छा लब्धा चेतना प्रतिपन्नः शरणतया भगवान् मा रस्यागमन भीर्दानेन समाश्वासितोऽहं भगवता दूरीभूता भगवद्भयेन किलेते राजपुरुषाः ततो विश्रब्धीभूतोऽहं पृष्टस्तया व्यतिकरं कथितश्च मयैवमात्मवृत्तान्तो विस्तरेण, अयं च भद्रे! भगवतः समन्तभद्रसूरेमहाभद्रायाः पौण्डरीकस्य भवत्याश्च सम्बन्धी वृत्तान्तः प्रतीतोऽपि तव स्वसंवित्त्यर्थ मया निवेदितः येन ते मदीयकथिते सुनिर्णीतमेवायं कथयतीति सर्वत्र सम्प्रत्ययो भवति, तज्जातस्तेऽधुना सम्प्रत्ययः ?, सा प्राह-बाढमात्मगोचरः संजातः, केवलं यदि त्वमनुसुन्दरनामा चक्रवर्ती ततः किमित्येवं तस्कराकारधारको दृश्यसे?, अयं मेऽधुना सन्देहः, स प्राह-भद्रे! युवयोः प्रतिबोधनार्थ मयेदं बहिरपि तस्कररूपं विरचितं यतोऽहमन्तरङ्गं चौर्यमुद्दिश्य भवतां पुरतो भगवता संसारिजीवो नामायं तस्करः कलकलेनेत्थं बवा नीयते लग्न इत्याख्यातः, ततो गतायां मम सम्मुखं महाभद्रायां तद्दर्शनानुभावात्संजाते प्रबोधे मया चिन्तितं-यद्यप्येषा प्रज्ञाविशाला महाभद्रा जानात्येवेदं भगवदादिष्टं मदीयमन्तरङ्गं चौर्य ततो लक्षयति भावतो मम त- चौररूप|स्करता तथाप्यगृहीतसङ्केताऽद्यापि सा सुललिता न जानीते गन्धमप्यस्य व्यतिकरस्य, ततश्चक्रवर्तिरूपधारिणं मामुपलभ्य भवेदस्याः ताकणसदागमवचने विप्रत्ययो न जानीते किंचिदयं सदागमो यतश्चक्रवर्त्यप्यनेन तस्करोऽभिहित इति भावनया, किं च-असावपि पौण्डरी-18कारण कोऽनेनैव द्वारेण प्रतिबोधितो भविष्यति, भव्यपुरुषो ह्यसौ सुमतिश्च वर्तते विज्ञास्यति मामकीनवृत्तान्तश्रवणोत्तरकालमस्य सर्वस्य परि-| | स्फुटमैदंपर्यं भविष्यत्यस्य प्रबोध इत्येवं विचिन्त्य विरचितमिदमन्तरङ्गात्मरूपसूचकं वैक्रियकरणलब्ध्या मया बहिरपि सर्वमेवंविधं रूप- ॥७४०॥ | मिति, सुललितयोक्तं-कीदृशं पुनस्तदन्तरङ्गं चौर्यं यद्भवता विहितं कथं वा तत्रेदशी विडम्बना कथं वाऽत्मगतं परगतं च निःशेष | Jain Education For Private & Personel Use Only S hjainelibrary.org

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422