________________
उपमितौ अ. प्र.
॥७४०॥
| यथा भद्र! भगवन्तं सदागमं शरणं प्रतिपद्यस्वेति, ततः समानीतोऽहमेवं वदन्त्या भगवत्समीपं, दृष्टोऽहमेवं वध्यतस्कराकारधारकः स-IN
अनुसुन्दमस्तपरिषदा, ममापि भगवन्तमवलोकयतोऽनाख्येयसुखरसनिर्भरतया समागता मूर्छा लब्धा चेतना प्रतिपन्नः शरणतया भगवान् मा
रस्यागमन भीर्दानेन समाश्वासितोऽहं भगवता दूरीभूता भगवद्भयेन किलेते राजपुरुषाः ततो विश्रब्धीभूतोऽहं पृष्टस्तया व्यतिकरं कथितश्च मयैवमात्मवृत्तान्तो विस्तरेण, अयं च भद्रे! भगवतः समन्तभद्रसूरेमहाभद्रायाः पौण्डरीकस्य भवत्याश्च सम्बन्धी वृत्तान्तः प्रतीतोऽपि तव स्वसंवित्त्यर्थ मया निवेदितः येन ते मदीयकथिते सुनिर्णीतमेवायं कथयतीति सर्वत्र सम्प्रत्ययो भवति, तज्जातस्तेऽधुना सम्प्रत्ययः ?, सा प्राह-बाढमात्मगोचरः संजातः, केवलं यदि त्वमनुसुन्दरनामा चक्रवर्ती ततः किमित्येवं तस्कराकारधारको दृश्यसे?, अयं मेऽधुना सन्देहः, स प्राह-भद्रे! युवयोः प्रतिबोधनार्थ मयेदं बहिरपि तस्कररूपं विरचितं यतोऽहमन्तरङ्गं चौर्यमुद्दिश्य भवतां पुरतो भगवता संसारिजीवो नामायं तस्करः कलकलेनेत्थं बवा नीयते लग्न इत्याख्यातः, ततो गतायां मम सम्मुखं महाभद्रायां तद्दर्शनानुभावात्संजाते प्रबोधे मया चिन्तितं-यद्यप्येषा प्रज्ञाविशाला महाभद्रा जानात्येवेदं भगवदादिष्टं मदीयमन्तरङ्गं चौर्य ततो लक्षयति भावतो मम त- चौररूप|स्करता तथाप्यगृहीतसङ्केताऽद्यापि सा सुललिता न जानीते गन्धमप्यस्य व्यतिकरस्य, ततश्चक्रवर्तिरूपधारिणं मामुपलभ्य भवेदस्याः
ताकणसदागमवचने विप्रत्ययो न जानीते किंचिदयं सदागमो यतश्चक्रवर्त्यप्यनेन तस्करोऽभिहित इति भावनया, किं च-असावपि पौण्डरी-18कारण कोऽनेनैव द्वारेण प्रतिबोधितो भविष्यति, भव्यपुरुषो ह्यसौ सुमतिश्च वर्तते विज्ञास्यति मामकीनवृत्तान्तश्रवणोत्तरकालमस्य सर्वस्य परि-| | स्फुटमैदंपर्यं भविष्यत्यस्य प्रबोध इत्येवं विचिन्त्य विरचितमिदमन्तरङ्गात्मरूपसूचकं वैक्रियकरणलब्ध्या मया बहिरपि सर्वमेवंविधं रूप- ॥७४०॥ | मिति, सुललितयोक्तं-कीदृशं पुनस्तदन्तरङ्गं चौर्यं यद्भवता विहितं कथं वा तत्रेदशी विडम्बना कथं वाऽत्मगतं परगतं च निःशेष |
Jain Education
For Private & Personel Use Only
S
hjainelibrary.org