________________
सूरिकृतं अनुसु
उपमिती श्रीगर्भराजाय च संजातस्तयोः प्रमोदः ततो गत्वा महानन्देन समर्पितस्ताभ्यां भगवतो निजतनयः ततः कुरुते स प्रतिदिनमागमाधिअ.८-अ. 18|गमं पौण्डरीकः, ततोऽत्रैव चित्तरमे काननेऽत्रैव च मनोनन्दने चैत्यभवने सङ्घसमुदयमध्यस्थिते भगवति समन्तभद्रसूरौ धर्म व्याचक्षणे
स्थितायां महाभद्रायां निकटवर्तिनि पौण्डरीके समागतायां सुललितायां धर्मकथाऽऽक्षिप्तहृदये भव्यलोके समुल्लसितो मदीयबहलकल॥७३९॥
कलः, तच्छ्रवणादुत्कर्णिता परिषत् , ततः सुललितया महाभद्रां प्रत्युक्तं-भगवति ! किमेतत् ?, सा प्राह-नाहं जाने, ततो भगवता तयोः सुललितापौण्डरीकयोः प्रतिबोधायेदमुक्तं-यथा महाभद्रे! किं न जानीषे त्वं प्रसिद्धैव तावदियं मनुजगतिनगरी प्रख्यातोऽयं महाविदेहरूपो हट्टमार्गो यत्राधुना सर्वेऽपि वयमास्महे, ततोऽद्य संसारिजीवो नाम तस्करो गृहीतः सलोत्रको दुष्टाशयादिभिर्दण्डपाशिकैः दर्शितः कर्मपरिणाममहाराजाय, ततस्तेन पृष्ट्वा कालपरिणति स्वभावादींश्चाज्ञापितोऽसौ वध्यतया, ततः सोऽयं संसारिजीवः खल्वेवं वेष्टितस्तै राजपुरुषैर्महाकलकलेन हट्टमार्गमध्येन नगर्या निःसार्य नीत्वा च पापिपअरनामके वध्यस्थाने दुःखमारेण मारयिष्यते, तदेष तस्मिन्नीयमाने कोलाहलः श्रूयते, सुललितयोक्तं-भगवति! ननु शङ्खपुरमिदं न मनुजगतिः चित्तरमं चेदं काननं न हट्टमार्गः श्रीगर्भश्वात्र राजा न कर्मपरिणामः तत्किमित्येवं भगवन्तो जल्पन्ति?, भगवानाह-धर्मशीलेऽगृहीतसङ्केता त्वमसि न जानीषे परमार्थ, सुललितया चिन्तितं-ही ममाप्यपरं नाम कृतं भगवता, ततः स्थिता विस्मितवदना, महाभद्रया बुद्धो भगवद्वाक्यार्थः, चिन्तितमनया-कश्चिदेष कृतभूरिपापो नरकगामी भगवता जीवो निर्दिष्टः, ततः संजाता महाभद्रायाः करुणा, अभिहितमनया-भगवन् ! किमेष कथंचिन्मोचयितुं पार्यते तस्करो न वेति, भगवानाह-आर्ये! तव दर्शनेनास्मत्समीपागमनेन च भविष्यत्यस्य मोक्षः, महाभद्रयोक्तं-भदन्त ! गच्छाम्यहमस्याभिमुखं, भगवतोक्तं-गच्छ, ततः करुणापरिगतहृदयाऽऽगता महाभद्रा मदभ्यर्ण, अभिहितोऽहं
वस्थानिवेदनं
॥ ७३९॥
5-456
Jain Education in
For Private
Personel Use Only
R
ainelibrary.org