________________
उपमितौ अ.८-प्र.
सुललि
ताया: समन्तभद्रदर्शनं
॥७३८॥
तत्प्रसादादेव मयाऽपीदं समस्तं विज्ञातं चिरपरिचितः स मे भगवान्महाप्रभावश्चेत्यादि वर्णितं सदागममाहात्म्यं कथितं च तस्य तथा| | परितोषकारणं, सुसलितयाऽभिहितं-भगवति ! ममापि विधेहि तेन भगवता सह परिचयं, महाभद्राऽऽह-बाढं, ततो नीताऽनया समन्तभद्रसूरिसमीपे सुललिता, तद्दर्शनाज्जातः सुललितायाः प्रमोदः संपन्नः कथितगुणेषु संप्रत्ययः, अभिहितमनया-भगवति ! वञ्चिताऽहमियन्तं कालं भगवत्या यदेष न दर्शितो मे महाभागः सदागमः अहो ते स्वार्थपरता तदतः परं भगवति! दर्शनीयो मे दिने दिने भगवान् येनाहमपि भगवत्या सदृशी पण्डिता भवामि, महाभद्रयोक्तं-एवं करिष्ये, ततः प्रारब्धा ताभ्यां प्रतिदिनं भगवत्पर्युपासना लचितो मासकल्पः, ततो भगवानाह-महाभद्रे ! क्षीणजङ्घाबलाऽसि त्वमधुना न शक्नोषि विहर्तुं अतस्तिष्ठ त्वमत्रैव शङ्खपुरे वयं तु विहरामस्तावत् पुनरागमिष्यामः, युष्मत्प्रतिजागरणमेवेहास्माकं मासकल्पकरणे कारणं, अन्यथा हि न कल्पते साध्वीसमध्यासिते क्षेत्रे | | साधूनां कर्तुं मासकल्पः, ग्लानप्रतिजागरणं तु पुष्टमालम्बनं, प्रतिचरणीयश्च भवत्या पौण्डरीकोऽयं राजदारकः भविष्यत्येष वर्धमानो मे शिष्यः, ततस्तथेति प्रतिपन्नं सूरिवचनं महाभद्रया विहृता भगवन्तः, प्राप्तः क्रमेण पौण्डरीकः कुमारभावं प्रादुर्भूतोऽस्य यथानिर्दिष्टो गुणकलापः जातोऽयं स्नेहप्रतिबद्धहृदयो महाभद्रायां, समागता भूयो भगवन्तः समन्तभद्रसूरयः नीतस्तदभ्यणे महाभद्रया पौण्डरीकः, स च भाविभद्रतया हृष्टस्तन्मूर्तिदर्शनेन रञ्जितस्तद्गुणकलापेन प्रीणितस्तद्वचनाकर्णनेन, शुद्धमुग्धबुद्धितया च महाभद्रां प्रत्याह-भगवति ! किनामायं महाभागः ?, तया चिन्तितं-सरलहृदयोऽयं राजपुत्रो रञ्जितश्च भगवद्गुणैरिति लक्ष्यते, तदस्यापि जनयाम्येतहारेणैव सर्वज्ञागमविषयां भक्तिमिति संचिन्त्याभिहितमनया-भद्र! सदागमोऽयमभिधीयते, पौण्डरीकेणोक्तं-भगवति ! यद्यम्बातातयोः प्रतिभाति ततोऽहमस्यैव भगवतः सकाशे गृह्णाम्यागमार्थ, महाभद्रयोक्तं-युक्तमिदं, ततो निवेदितस्तदभिप्रायो महाभद्रया कमलिन्यै
विहता
सा भूयो भगबनाकर्णनेन
॥७३
॥
Jain Education Inter
For Private & Personel Use Only
K
ainelibrary.org