SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. पौण्डरीक| जन्मादि ॥७३७॥ तदर्थं ददात्युपयाचितशतानि पिबत्यौषधमूलजातानि, ततो भवितव्यतया स कुलंधरो भूरिषु भवेषु कृतकुशलाभ्यासः प्रवेशितस्तस्याः कुक्षौ, दृष्टोऽनया स्वप्नो यथा सुन्दराकारधरः पुरुषो वदनेन मे प्रविश्य शरीरे हृदयेन निर्गत्य गतः केनचिन्नरेण साधू, ततः कथितोऽनया भत्रे दस स्वप्नः, तेनोक्तं-भविष्यति ते पुत्रः केवलमचिरेण कंचन गुरुं प्राप्य प्रव्रजिष्यति, तदाकर्ण्य तुष्टा कमलिनी, ततस्तृतीये मासि संजा| तोऽस्याः कुशलकर्मकरणमनोरथः संपादितः श्रीगर्भराजेन संपूर्णकाले च जातो दारकः परिपुष्टो राजा कारितस्तजन्मानन्दः, इतश्च समुत्पन्नविमलकेवलालोकः समागतोऽसौ समन्तभद्राचार्यः स्थितोऽत्रैव चित्तरमे कानने निर्गता तद्वन्दनार्थ महाभद्रा कथंचिन्न विज्ञातः सुललितया, संजातः कथंचिद्राजदारकजल्पः, भगवतोक्तं-एष बहुशोऽभ्यस्तकुशलकर्मा राजपुत्रो न स्थास्यति भवने ग्रहीष्यति प्रव्रज्या भविष्यति सर्वज्ञागमधारकः, तदाकागता निजोपाश्रये महाभद्रा, इतश्च तस्य नरेन्द्रतनयस्य पौण्डरीक इति प्रतिष्ठितमभिधानं विहितो नामकरणप्रमोदः, इतश्च सा सुललिता कुतूहलपरतया विचरन्ती प्राप्ता तत्र चित्तरमे कानने दृष्टः सङ्घमध्यस्थोऽनया स | समन्तभद्रसूरि पतिसुतगुणसन्दोहं वर्णयमानः, उक्तं च भगवता-यतोऽयं शुभेन कर्मपरिणामेन अनुकूलीभूतया कालपरिणत्या अस्यां मनुजगतौ जनितस्तस्मादेवंविधगुण एवायं भविष्यति, भव्यपुरुषो हि सुमतिः सन्निखिलैर्गुणैर्युज्यत एव कोऽत्र सन्देहः ?, ततस्तदाकर्ण्य हृष्टाः सर्वे लोकाः, सुललितया चिन्तितं-कथं कालपरिणतिकर्मपरिणामयोजनकत्वं कथं चैप भाविगुणजातं जानाति ?, ततो गत्वा वसतिं पृष्टाऽनया महाभद्रा, तया चिन्तितं-अत्यन्तमुग्धेयं सुललिता, ततोऽयमेवास्याः प्रतिबोधनोपाय इति संचिन्य युक्तितः समर्थितं महाभद्रया कालपरिणतिकर्मपरिणामयोजनकत्वं, उत्पादयामि च सदागमगोचरामस्याः प्रीतिमिति चिन्तयन्त्याऽभिहितमनया-भद्रे! स ४ तदा लोकमध्ये व्याचक्षाणः सदागमस्त्वयाऽवलोकितः स हि भगवान् भूतभवद्भविष्यद्भावान्निःशेषानाविर्भावयत्येव नास्त्यत्र सन्देहः सुललितायाः समन्त भद्रदर्शनं Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy