SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. पौण्डरीक| जन्मादि ॥७३७॥ तदर्थं ददात्युपयाचितशतानि पिबत्यौषधमूलजातानि, ततो भवितव्यतया स कुलंधरो भूरिषु भवेषु कृतकुशलाभ्यासः प्रवेशितस्तस्याः कुक्षौ, दृष्टोऽनया स्वप्नो यथा सुन्दराकारधरः पुरुषो वदनेन मे प्रविश्य शरीरे हृदयेन निर्गत्य गतः केनचिन्नरेण साधू, ततः कथितोऽनया भत्रे दस स्वप्नः, तेनोक्तं-भविष्यति ते पुत्रः केवलमचिरेण कंचन गुरुं प्राप्य प्रव्रजिष्यति, तदाकर्ण्य तुष्टा कमलिनी, ततस्तृतीये मासि संजा| तोऽस्याः कुशलकर्मकरणमनोरथः संपादितः श्रीगर्भराजेन संपूर्णकाले च जातो दारकः परिपुष्टो राजा कारितस्तजन्मानन्दः, इतश्च समुत्पन्नविमलकेवलालोकः समागतोऽसौ समन्तभद्राचार्यः स्थितोऽत्रैव चित्तरमे कानने निर्गता तद्वन्दनार्थ महाभद्रा कथंचिन्न विज्ञातः सुललितया, संजातः कथंचिद्राजदारकजल्पः, भगवतोक्तं-एष बहुशोऽभ्यस्तकुशलकर्मा राजपुत्रो न स्थास्यति भवने ग्रहीष्यति प्रव्रज्या भविष्यति सर्वज्ञागमधारकः, तदाकागता निजोपाश्रये महाभद्रा, इतश्च तस्य नरेन्द्रतनयस्य पौण्डरीक इति प्रतिष्ठितमभिधानं विहितो नामकरणप्रमोदः, इतश्च सा सुललिता कुतूहलपरतया विचरन्ती प्राप्ता तत्र चित्तरमे कानने दृष्टः सङ्घमध्यस्थोऽनया स | समन्तभद्रसूरि पतिसुतगुणसन्दोहं वर्णयमानः, उक्तं च भगवता-यतोऽयं शुभेन कर्मपरिणामेन अनुकूलीभूतया कालपरिणत्या अस्यां मनुजगतौ जनितस्तस्मादेवंविधगुण एवायं भविष्यति, भव्यपुरुषो हि सुमतिः सन्निखिलैर्गुणैर्युज्यत एव कोऽत्र सन्देहः ?, ततस्तदाकर्ण्य हृष्टाः सर्वे लोकाः, सुललितया चिन्तितं-कथं कालपरिणतिकर्मपरिणामयोजनकत्वं कथं चैप भाविगुणजातं जानाति ?, ततो गत्वा वसतिं पृष्टाऽनया महाभद्रा, तया चिन्तितं-अत्यन्तमुग्धेयं सुललिता, ततोऽयमेवास्याः प्रतिबोधनोपाय इति संचिन्य युक्तितः समर्थितं महाभद्रया कालपरिणतिकर्मपरिणामयोजनकत्वं, उत्पादयामि च सदागमगोचरामस्याः प्रीतिमिति चिन्तयन्त्याऽभिहितमनया-भद्रे! स ४ तदा लोकमध्ये व्याचक्षाणः सदागमस्त्वयाऽवलोकितः स हि भगवान् भूतभवद्भविष्यद्भावान्निःशेषानाविर्भावयत्येव नास्त्यत्र सन्देहः सुललितायाः समन्त भद्रदर्शनं Jain Education in For Private & Personel Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy