SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. ॥ ७३६ ॥ Jain Education Inte पदे, सापि च महाभद्रा संप्राप्ता यौवनं परिणीता गन्धपुराराधिपतिना पद्मावतीरविप्रभपुत्रेण दिवाकरेण गतोऽसौ कालवशेनास्तं प्रतिबोधिता समन्तभद्रसूरिणा महाभद्रा गृहीताऽनया भागवती दीक्षा संजातैकादशाङ्गधारिणी गीतार्था स्थापिता गुरुभिः प्रवर्तिनीपदे ततः सा सुसाध्वीभिः परिवारिता विहरन्ती संप्राप्ता रत्नपुरे, तत्र च मगधसेनो राजा तस्य च सुमङ्गला नाम महादेवी, इतश्च सा मदनमञ्जरी जनिता तत्सुतात्वेन भवितव्यतया तया कृतं तस्याः सुललितेति नाम प्राप्ता क्रमेण यौवनं संपन्ना पुरुषद्वेषिणी लङ्घितो भूरिकालः नेष्टो वरगन्धोऽप्यनया ततः कथमियं वरिष्यत इति संजाता जननीजनकयोश्चिन्ता ततो महाभद्रां समागतामाकर्ण्य गृहीत्वा तां सुललितां प्रियपुत्रिकां गतौ तदुपाश्रये वन्दनार्थं देवी नरेन्द्रौ वन्दिता सपरिकरा भगवती दत्तोऽनया परमपदकल्पपादपनिरुपहतबीज- 4 भूतो धर्मलाभः विहितामृतप्रवाहकल्पा सद्धर्मदेशना ततः सा सुललिता परिस्फुटमबुध्यमानापि भगवतीवचनभावार्थमत्यन्तमुग्धतया पूर्वपरिचयादुत्पन्नस्नेहरागा भगवतीवदनकमलावलोकनान्निजलोचने कचिदन्यत्र नेतुमपारयन्ती पितरं प्रत्याह — तात ! मया भगवत्या - चरणयुगलं पर्युपासितव्यं तदनुजानातु मां तातो येनाहमनथैव सार्धं सर्वत्र विचरामीति, तदाकर्ण्य प्ररुदिता सुमङ्गला, नृपतिराह— देवि ! अलमत्र रुदितेन करोतु वत्सा समीहितं अयमेवास्या विनोदनोपायो भविष्यति, केवलं भगवतीपार्श्वस्थयाऽनया सामग्रीयुक्तया गृहस्थयैव सत्या पर्यटितव्यं न चास्मदपृच्छयाऽनया प्रव्रज्याजल्पोऽपि विधेयः, सुललितयोक्तं तात ! महाप्रसादः, ततः सा सुललि ता तथा महाभद्रा प्रवर्तिन्या सह तथैव नानादेशेषु विचरितुं प्रवृत्ता, केवलं कर्मोदयान्न प्रवर्तते तस्याः पाठः न लगति सामाचारीक्रमः न बुध्यते च सा परिस्फुटमपि कथ्यमानमागमार्थ, अन्यदा समायाता भगवती महाभद्राऽत्र शङ्खपुरे स्थिता नन्दस्य श्रेष्ठिनो घंघ- ४ शालायां इतञ्चात्र शङ्खपुरे मम मातुलः श्रीगर्भो नाम राजा तस्य च महाभद्रामातृष्वसा कमलिनी नाम महादेवी सा च निरपत्या ॥ ७३६ ॥ For Private & Personal Use Only सुललि तायाः साध्व्या सह पर्यटनं jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy