Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ अ.८-प्र.
॥७५२॥
सुललिताया बोधो दीक्षोद्यमश्च
सहकारिणः ।। ६५० ॥ सुललितयोक्तं-आर्य! सत्यमेवमिदं, विनष्टा मेऽधुना मनस्यवभावना, केवलं प्रतिपन्नं मया निजजननीजनकयोर्यथाऽननुज्ञातया प्रव्रज्यानामापि न ग्राह्यं, तत्कथं भविष्यति !, अनुसुन्दरेणोक्तं-आयें ! मा भैषीः समागतावेव ते जननीजनको, अत्रान्तरे समुल्लसितो बहलो बलकलकलः, स्तोकवेलायां च प्रविष्टस्तत्रैव मनोनन्दने जिनभवने सपरिकरो मगधसेनराजः सह सुमडलया, ततः प्रणिपत्य जिनेश्वरमभिवन्द्य सूरिं साधुवर्ग च कृताभ्युत्थानप्रणामः सुललितया प्रणम्य चानुसुन्दरराजमुपविष्टस्तत्समीपे, सुमङ्गलापि विहितनिःशेषप्रतिपत्तिर्विधाय सुललितालिङ्गनमाघ्राय मूर्धदेशे उपविष्टा तदन्तिके, आनन्दभराद् गद्गदवागाह-वत्से! समुत्सुकत्वेन, तव दर्शनलालसौ । आवां राज्यं परित्यज्य, त्वत्समीपमुपागतौ ।। ६५१ ।। जनकस्ते रतिं वत्से!, न प्राप्नोति त्वया विना ।। मन्दभाग्यस्तथा स्नेहादेष दन्दह्यते जनः ॥ ६५२ ॥ कठोरहृदयत्वेन, निर्दयत्वेन वा पुनः। त्वया निरन्तरं वत्से !, दत्ता वार्ताऽपि ना-12 वयोः ॥ ६५३ ॥ सुललितयोक्तं-अम्ब! किं बहुनोक्तेन, मां प्रत्यद्य यथास्थितः । युवयोः स्नेहसद्भावो, नूनं व्यक्तीभविष्यति ॥६५४॥ | यतः-अहं युष्मदनुज्ञाता, प्रव्रज्यां पारमेश्वरीम् । अधुनैव ग्रहीष्यामि, संसारोत्तारकारिणीम् ।। ६५५ ॥ ततो यदि युवां मेऽद्य, वारणं न करिष्यथः । प्रव्रज्यां च मया साध, निर्विकल्पं ग्रहीष्यथः ॥ ६५६ ॥ ततो मम तथामीषां, जनानामुपरि स्फुटम् । प्रतीतः नेहसद्भावो, यौष्माकीणो भविष्यति ॥ ६५७॥ त्रिभिर्विशेषकम् । एतञ्चाकर्ण्य मगधसेननरेन्द्रः सुमङ्गला प्रत्याह-देवि! दत्तो वत्सयाऽऽवयो| मुखबन्धः विहिताऽऽदित एव निरुत्तरता सुदृष्टपरमार्थेयमधुना वर्तते कथमन्यथेशो वचनविन्यासः?, ततो न भवत्येवेयमयुक्तकारिणी,
साधु चोक्तमनया युक्तमेवावयोरनया सह प्रव्रजनं निर्मिध्यस्नेहसारसूचकमिदं विशेषतः प्राप्तकालमावयोः, सुमङ्गलयोक्तं यदाज्ञापयति | देवः, ततो हृष्टा सुललिता पतिता महाप्रसाद इति वदन्ती द्वयोरपि चरणयोः, कथितश्चानया संक्षेपतस्तयोरनुसुन्दरादिवृत्तान्तः संजातः ।
॥७५२ ॥
Jain Education
For Private & Personel Use Only
A
jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422