________________
उपमिती अ.८-प्र.
॥७३३॥
वा। कर्मशुद्धेन भावेन, धर्मबुद्ध्याऽन्यथापि वा ॥ ४८२ ॥ प्राप्तं तदापि तद्भद्रे!, सत्पुरं विबुधालयम् । किं तु किल्बिषिकावासे, जातो व्यन्तरपाटके ।। ४८३ ।। त्रिभिर्विशेषकम् ।। तथा-कृत्वा बालतपो घोरं, सरोषो वैरतत्परः । तपोगौरवयुक्तोऽहं, गतो भवनवासिषु ॥ ४८४ ॥ तथा-तापसव्रतमासाद्य, तदनुष्ठानभावतः । ज्योतिश्चारिषु नीतोऽहं, बहुशो निजभार्यया ॥ ४८५ ॥ तथा प्राप्य भागवतीं दीक्षा, तपोनिष्टप्तदेहकः । युक्तः क्रियाकलापेन, ध्यानाभ्यासपरायणः ॥४८६।। केवलं-सर्वज्ञभाषितं किंचित्पदं वाक्यमथाक्षरम् । अश्रद्दधानो मूढत्वात्सम्यग्दर्शनवर्जितः ।। ४८७॥ गतोऽहं भूरिशो भद्रे., सर्वप्रैवेयकेष्वपि । आगतो मानवावासं, भूयो भूयोऽन्तराऽन्तरा । ४८८ ।। युग्मम् । अस्य च भ्रमणस्यैवं, भद्रे! जानीहि कारणम् । तत्सिंहाचार्यताकाले, शैथिल्यं यन्मया कृतम् ॥ ४८९॥ इतरथा
-तदैव निर्मलीकृत्य, चित्तवृत्तिं निहत्य च । रिपुवर्ग स्थितो राज्ये, गतः स्यां निर्वृतावहम् ॥ ४९० ।। तदिदमखिलं जातं, भूयो भ्रमलणलक्षणम् । निजाया दुष्टचेष्टायाः, फलं नान्यस्य कस्यचित् ।। ४९१ ।। अगृहीतसङ्केतयोक्तं न केवल मिदं तात!, समस्तं यन्निवेदि
तम् । त्वयेह बत तत्सर्व, निजं चेष्टाविजृम्भितम् ॥ ४९२ ।। तथाहि-यद्यवर्तिष्यथास्तात!, सर्वदा त्वं निरापदि । तस्य सुस्थितराजस्य, सदाज्ञायां स्थिराशयः ॥ ४९३ ॥ नाभविष्यत्ततो दीर्घा, तवेयमतिदारुणा । भीषणा श्रूयमाणाऽपि, तीव्राऽनर्थपरंपरा ॥ ४९४॥ युग्मम् । संसारिजीवेनोक्तं-चारु चारूदितं सुभ्र!, संप्रति त्वं हि वर्तसे । नाम्नाऽगृहीतसङ्केता, भावतस्तु विचक्षणा ॥ ४९५ ॥ तदाकर्णय चार्वङ्गि!, साम्प्रतं येन हेतुना । जातोऽहमीदृशावस्थस्तस्कराकारधारकः ॥ ४९६ ।। अगृहीतसङ्केतयोक्तं-निवेदयतु भद्रः, संसारिजीवेनोक्तं-तस्माद्वैवेयकादन्यादानीतोऽहं महेलया । पुरीं मनुजगत्यन्तःपातिनी क्षेमनामिकाम् ॥ ४९७ ॥ इतश्च जानात्येव भवती यथाअनेकापणमालाढ्ये, भूरिविस्तारसुन्दरे । महाविदेहरूपेऽत्र, हट्टमार्गेऽतिदूरगे ॥ ४९८ ॥ वसन्ति चित्ररूपाणि, सत्पुराण्यन्तराऽन्तरा ।।
अनुसुन्दरजन्मादि
उ. भ. ६२
Jan Education Intematon
For Private Personal use only