SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ बोस्. FACSMSA ॥७१४॥ ततः क्षेमपुरी साऽस्य, हट्टमार्गस्य मध्यगा ॥ ४९९ ॥ सुकच्छबिजयस्थानमिदं भद्र! निगद्यते । यत्र स्थिता वयं यूयं, पुरी सा च अनुसुन्दमनोहरा ॥५०॥ तस्यां च क्षेमपुर्या-अभूदरातितामिस्रबर्हणस्तेजसां निधिः । राजा युगंधरो नाम, भास्कराकारधारकः ॥५०१॥ रजन्मादि तस्य दर्शनमात्रेण, प्रोत्कुलमुखपङ्कजा । आसीदिष्ठा महादेवी, नलिनी नाम विभुता ॥ ५०२ ॥ अथागृहीतसङ्केते!, भवितव्यतया तया । तस्याः प्रवेशितः कुक्षावहं पुण्योदयान्वितः॥ ५०३ ॥ इतश्च-तस्यां रात्रौ सुशय्यायां, सा सुप्ता कमलेक्षणा । चतुर्दश महास्वप्नानवलोक्य समुत्थिता ॥ ५०४ ॥ ततः प्रहृष्टयाऽऽख्यातास्ते युगंधरभूभुजे । तया फलोपलम्भार्थ, महास्वप्ना गजादयः ।। ५०५॥ तेनाप्युक्तं यथा देवि !, देवदानवपूजितः । कुलप्रदीपस्ते पुत्रश्चक्रवर्ती भविष्यति ॥ ५०६ ॥ ततः प्रोत्फुल्लनेत्रा सा, भर्तुर्वाक्यैर्मनोहरैः ।। अभिनन्द्य तदुल्लापैर्गर्भ धारयतेऽनघा ॥५०७॥ ततः संपूर्णकालेन, सुन्दराकारधारकः । पुण्योदययुतो जातस्तोषादृष्टोऽहमम्बया ॥५०॥ अथ गत्वा प्रियङ्का, हर्षगद्गदया गिरा । प्रोत्फुल्लनेत्रयाऽऽस्थाने, तातायाहं निवेदितः ॥ ५०९ ॥ ततः पुलकचार्वङ्गः, स दत्वा पारितोषिकम् । दानं तस्यै यथाकाममादिदेश महोत्सवम् ॥ ५१० ॥ अथ विलासविभूषणबन्धुरः, सरसनर्तनवादनसुन्दरः । मदविघूर्णित-| लोकमनोहरः, प्रववृते मम जन्ममहोत्सवः ॥ ५११॥ गानपानवरखादनवन्तो, मानदानमदनादरवन्तः । तातवाक्यवशतो विलसन्त-19 स्तत्र गाढमुदिता ननु सन्तः ।। ५१२ ॥ यथैकं तद्दिनं भद्रे!, तथाऽन्यद्दिनपश्चकम् । गतमुद्दामलीलाभिवृहदुत्सवसुन्दरम् ।। ५१३ ॥ | ततः प्रयत्नतः सर्वैस्ताताम्बाबान्धवादिभिः । पष्ठिकाजागरो रम्यः, कृतो मे नाकविभ्रमः ॥ ५१४ ॥ ततो महाप्रमोदेन, लविते मासमात्रके । प्रतिष्ठितं च मे नाम, यथाऽयमनुसुन्दरः॥ ५१५ ॥ अथ संवर्धमानोऽहं, धात्री पञ्चकलालितः । कुमारभावमापनो, गृ-10 | ॥७३४॥ हीताः सकलाः कलाः ।। ५१६ ॥ ततश्च यौवनस्थोऽहं, यौवराज्येऽभिषेचितः । तातेन महता भद्रे!, विमतेन मनोरमे ।। ५१७॥ CROSALALA90 Jain Education deal For Private & Personel Use Only Thdw.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy