Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उपमितौ
अ. ८-प्र.
॥ ७०३ ॥
Jain Education Inte
कुलंधरेणापि, महत्तमसदागमौ । तथा मदनमञ्जर्या, तौ प्रपन्नौ यथा मया ॥ १६९ ॥ ततोऽधिकतरं तुष्टस्तदाऽहं स च मे मुनिः । विशेषतः करोत्येव, भूयः सद्धर्मदेशनाम् ॥ १७० ॥ अत्रान्तरे - चित्तवृत्तिमहाटव्यां, लीनलीनाः प्रकम्पिताः । भयेन रोधकं हित्वा महामोहादयः स्थिताः || १७१ ॥ ततश्च - चारित्रधर्मराजेन, मत्री सद्बोधनामकः । इदमुक्तस्तदा भद्रे !, मनाक् संतुष्टचेतसा ॥ १७२ ॥ यदुत - सुन्दरोऽवसरो गन्तुं विद्यामादाय तेऽधुना । आर्य ! संसारिजीवस्य, पार्श्वे गाढं फलप्रदः ।। १७३ ।। तथाहि — शुभ्रीभूताऽधुना किंचिच्चित्तवृत्तिमहाटवी । निवृत्तो रोधकोऽस्माकमीषदूरे च शत्रवः ॥ १७४ ॥ तं कर्मपरिणामाख्यं, ततः पृष्ट्वा नरेश्वरम् । गच्छ त्वं शीघ्रमादाय, विद्यामेनां सुकन्यकाम् || १७५ || कन्दसाधुसमीपस्थः, साम्प्रतं स चरैर्मया । विज्ञातस्तत्र चावश्यं भवन्तं प्रतिपत्स्यते ॥ १७६ ॥ सद्बोधेनोदितं देव !, युक्तमेतन्न संशयः । किं तु कालविलम्बोऽत्र, युक्तोऽद्यापि प्रयोजने ।। १७७ ॥ स हि पुण्योदयस्तस्य स च सातो वयस्यकः । कियन्तमपि तत्कालमेतौ भोगफलप्रदौ ।। १७८ ॥ अतोऽद्यापि बलादेतौ, गृहे तं गुणधारणम् । शब्दादिसुखसंपूर्ण, वात्सल्याद्धारयिष्यतः ।। १७९ ।। एवं च स्थिते – अध्यास्ते स गृहं यावदनुवर्तनया तयोः । शब्दादिविषयग्रामं, सुखहेतुं च मन्यते ॥ १८० ॥ तावन्न युज्यते देव !, मम गन्तुं तदन्तिके । नयनं न च विद्याया, जाघटीति कथंचन । १८१ ॥ युग्मम् । केवलं प्रेष्यतामेष, देवेन निजदारकः । तदन्तिकेऽधुना तूर्णं, गृहिधर्मः सभार्यकः || १८२ ।। प्रस्तावोऽस्याधुना देव!, तत्समीपेऽतिसुन्दरः । गन्तुं सपरिवारस्य, वर्तते कार्यसाधकः ॥ १८३ ॥ गतमात्रमिमं देव !, स भावेन प्रपत्स्यते । भविष्यतीष्ठा तस्यास्य भार्या | सद्गुणरक्तता ॥ १८४ ॥ किं च - यदा सदागमस्तावत्तस्य पार्श्वे गतः पुरा । तदाऽयं द्रव्यतस्तेन, भूरिवारा विलोकितः ।। १८५ ।। यदा तु तत्पार्श्वगतः सम्यग्दर्शननामकः । महत्तमोऽतिवात्सल्यान्नीतस्तेनाप्ययं तदा । १८६ ॥ पल्योपमपृथक्त्वे च, लङ्घिते तेन भा
For Private & Personal Use Only
गृहिधर्मा
गमः
॥ ७०३॥
v jainelibrary.org

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422