Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 359
________________ उपमिती अ.८-प्र. ॥७१५॥ परां तज्जनकान्यबाह्याध्यात्मिकवस्तुप्रचोदनमुखेनैव संपादयन्ति, तदेषां 'सामग्री जनिका न पुनरेकं किंचित्कस्यचिजनकमस्ती'ति, केवलं यदादिष्टं भगवद्भिर्यथाऽयं तवामुना पुण्योदयेनेदानीमीदृशः सुखलेशः संपादित इत्यनेन वाक्येन जनितो मे कुतूहलातिरेकः, यतश्चिन्तितं मया-अये यस्मिन्नहनि मया लब्धा मदनम जरी तथाऽवाप्ता अन'या भूरिरनराशयः प्रशमितं चिन्तितमात्रेण खेचराणां रणविड़रं समुत्पन्नस्तेषां परस्परं बन्धुभावः गताः सर्वेऽपि मम भृत्यतां जनितस्ताताम्बादिपरितोषः प्रादुर्भूतो महोत्सवः समुत्पादितो संपूर्णसुखनागरकानन्दः प्राप्ता मद्भवनेऽम्बरचराः विहितं तातेन तत्सन्मानादिकं श्लाधितोऽहं सर्वैः उल्लासितो यशःपटहः तदहर्मम सुखनिर्भरत जिज्ञासा याऽमृतमयमिव प्रतिभासितमासीत् , तथा वर्धमाने मदनमचर्या सह प्रेमाबन्धे जाते कन्दमुनिदर्शने मित्रतामुपगतेषु सातसदागमसम्यग्दर्शनगृहिधर्मेषु परिणते महाराज्ये विलसतो यथेच्छया सुखसन्दोहपरिपूर्णतया संजाता मम देवलोकसुखेऽप्यवज्ञा, तथाऽधुना दृष्टे भगवति वन्दिते सविनयं नष्टे सन्देहे पश्यतो भगवद्वदनकमलमाकर्णयतो वचनामृतं मम सुखातिरेको वाग्गोचरातीतो वर्तते तत्कथं ही भगवद्भिरादिष्टं यथाऽधुना संपादितस्तवानेन पुण्योदयेनायं सुखलेश इति ?, तथाहि—यद्ययमपि सुखलवस्तर्हि कीदृशं पुनस्तत्संपूर्ण सुखं | | स्यादिति संजातो मे मनसि वितर्कः, ततः कथयन्तु भगवन्तः कीदृशं पुनः शरीरिणस्तत्संपूर्ण सुखमिति ?, निर्मलसूरिणोक्तं-महाराज! गुणधारण स्वानुभवेनैव विज्ञास्यसि त्वं तत्स्वरूपं किं तस्य कथनेन?, मयोक्तं-भदन्त ! कथं ?, भगवानाह-महाराज! यदा परिणेध्यसि त्वं दश कन्यकाः भविष्यति ताभिः सह सद्भावसारस्ते प्रेमाबन्धः ततस्तदोद्दामलीलया विलसतस्ते तन्मध्ये यत्सुखं संजनिष्यते तदपेक्षया सुखलव एवायमधुनातनो वर्तते, मयोक्तं-भगवन्नवधारितमिदानीं मया यथाऽहमेनामपि मदनमजरी परित्यज्य भगवत्पाद-15॥७१५॥ मूले प्रत्रजितको भविष्यामि तत्कथमहं कन्यकादशकं परिणेष्ये ?, भगवतोक्तं-अवश्यं त्वया परिणेतव्यास्ताः कन्यकाः, किं च-युक्तमेव Jain Education For Private Personal Use Only XBw.jainelibrary.org

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422