SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ. ८-प्र. ॥ ७०३ ॥ Jain Education Inte कुलंधरेणापि, महत्तमसदागमौ । तथा मदनमञ्जर्या, तौ प्रपन्नौ यथा मया ॥ १६९ ॥ ततोऽधिकतरं तुष्टस्तदाऽहं स च मे मुनिः । विशेषतः करोत्येव, भूयः सद्धर्मदेशनाम् ॥ १७० ॥ अत्रान्तरे - चित्तवृत्तिमहाटव्यां, लीनलीनाः प्रकम्पिताः । भयेन रोधकं हित्वा महामोहादयः स्थिताः || १७१ ॥ ततश्च - चारित्रधर्मराजेन, मत्री सद्बोधनामकः । इदमुक्तस्तदा भद्रे !, मनाक् संतुष्टचेतसा ॥ १७२ ॥ यदुत - सुन्दरोऽवसरो गन्तुं विद्यामादाय तेऽधुना । आर्य ! संसारिजीवस्य, पार्श्वे गाढं फलप्रदः ।। १७३ ।। तथाहि — शुभ्रीभूताऽधुना किंचिच्चित्तवृत्तिमहाटवी । निवृत्तो रोधकोऽस्माकमीषदूरे च शत्रवः ॥ १७४ ॥ तं कर्मपरिणामाख्यं, ततः पृष्ट्वा नरेश्वरम् । गच्छ त्वं शीघ्रमादाय, विद्यामेनां सुकन्यकाम् || १७५ || कन्दसाधुसमीपस्थः, साम्प्रतं स चरैर्मया । विज्ञातस्तत्र चावश्यं भवन्तं प्रतिपत्स्यते ॥ १७६ ॥ सद्बोधेनोदितं देव !, युक्तमेतन्न संशयः । किं तु कालविलम्बोऽत्र, युक्तोऽद्यापि प्रयोजने ।। १७७ ॥ स हि पुण्योदयस्तस्य स च सातो वयस्यकः । कियन्तमपि तत्कालमेतौ भोगफलप्रदौ ।। १७८ ॥ अतोऽद्यापि बलादेतौ, गृहे तं गुणधारणम् । शब्दादिसुखसंपूर्ण, वात्सल्याद्धारयिष्यतः ।। १७९ ।। एवं च स्थिते – अध्यास्ते स गृहं यावदनुवर्तनया तयोः । शब्दादिविषयग्रामं, सुखहेतुं च मन्यते ॥ १८० ॥ तावन्न युज्यते देव !, मम गन्तुं तदन्तिके । नयनं न च विद्याया, जाघटीति कथंचन । १८१ ॥ युग्मम् । केवलं प्रेष्यतामेष, देवेन निजदारकः । तदन्तिकेऽधुना तूर्णं, गृहिधर्मः सभार्यकः || १८२ ।। प्रस्तावोऽस्याधुना देव!, तत्समीपेऽतिसुन्दरः । गन्तुं सपरिवारस्य, वर्तते कार्यसाधकः ॥ १८३ ॥ गतमात्रमिमं देव !, स भावेन प्रपत्स्यते । भविष्यतीष्ठा तस्यास्य भार्या | सद्गुणरक्तता ॥ १८४ ॥ किं च - यदा सदागमस्तावत्तस्य पार्श्वे गतः पुरा । तदाऽयं द्रव्यतस्तेन, भूरिवारा विलोकितः ।। १८५ ।। यदा तु तत्पार्श्वगतः सम्यग्दर्शननामकः । महत्तमोऽतिवात्सल्यान्नीतस्तेनाप्ययं तदा । १८६ ॥ पल्योपमपृथक्त्वे च, लङ्घिते तेन भा For Private & Personal Use Only गृहिधर्मा गमः ॥ ७०३॥ v jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy