SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-प्र. गृहिधर्मा गमः ॥७०४॥ वतः । प्रपन्नो गृहिधर्मोऽयं, पूर्वमासीत्ततः परम् ।। १८७ ॥ यदा यदा पुनदृष्टौ, महत्तमसदागमौ । असङ्ख्या भावतो वाराः, प्रपन्नोऽयं तदा तदा ॥ १८८ ॥ अधुना केवलं देव!, यतोऽभ्यणे सदागमः । तेनैष हन्त तत्पार्श्वे, विशेषेण प्रहीयते ।। १८९॥ तत्तूर्णं यातु तत्पाशें, रञ्जयत्वेष तं गुणैः । प्रस्तावो मादृशां तत्र, ततो याने भविष्यति ॥ १९० ॥ अन्यच्च-महामोहादिसत्रासश्चित्तवृत्तेर्विशुद्धता। गृहिधर्मेऽपि तत्रस्थे, भवेद्देव ! विशेषतः ॥ १९१ ॥ तथा–स स्यादभिमुखोऽस्माकमक्षेपेण दिदृक्षया । अनेन गृहिधर्मेण, पार्श्वस्थेन प्रचोदितः ॥ १९२ ॥ चेतःसुखासिका गुर्वी, सन्तुष्टिः कर्मतानवम् । भवभीतेरभावश्च, गृहिधर्मेण ते गुणाः ॥ १९३ ॥ तस्मात्प्रस्थाप्यतामेष, गृहिधर्मस्तदन्तिके । यास्यामोऽवसरं ज्ञात्वा, पश्चात्सर्वे वयं पुनः ॥ १९४ ॥ तदिदं मत्रिणो वाक्यं, श्रुत्वा सन्नीतिनिर्मलम् । चारित्रधर्मराजेन, प्रहितो निजदारकः ॥ १९५ ।। स कर्मपरिणामस्य, गत्वा मूलं तदाज्ञया । समागतो ममाभ्यर्ण, तत्रैवाहादमन्दिरे ॥ १९६ ॥ अथ कन्दमुनेश्चार्वी, शृण्वतो धर्मदेशनाम् । आविर्भूतो ममाग्रेऽसौ, मुनिना च प्रकाशितः ॥ १९७ ॥ गुणरक्ततया युक्तस्तथा द्वादशमानुषैः । मयाऽतः प्रतिपन्नोऽसौ, बन्धुबुद्ध्या नरोत्तमः ॥ १९८ ॥ तथा कुलंधरेणापि, कान्तया च सबान्धवः । प्रपन्नो गृहिधर्माख्यो, जाताऽत्यन्तं सुखासिका ॥ १९९ ॥ अथ कन्दमुनिः पृष्टः, सन्देहं पूर्वचिन्तितम् । तं मया स्वप्नसंबद्धं, | सद्भावार्थबुभुत्सया ॥ २०० ॥ ततः कन्दमुनिः प्राह, स्वप्नार्थस्य विनिर्णयः । अस्यातीन्द्रियवेत्तारं, विना नैवोपलभ्यते ॥ २०१॥ | सन्ति मे केवलालोकभास्करा वरसूरयः । गुरवो निर्मला नाम, दूरदेशविहारिणः ।। २०२ ॥ एवं च-तत्पादमूलं यास्यामि, वन्दनार्थमहं यदा । तदा तान् प्रश्नयिष्यामि, भद्र! तावकसंशयम् ॥ १०३ ॥ यतः-योऽयं स्वप्नद्वयाजातः, सन्देहस्ते मनोगतः । विविक्तं तस्य भावार्थ, विज्ञास्यन्ति महाधियः ।। २०४ ॥ मयोक्तं-भदन्त ! यदि तेऽत्रैव, गुरवस्ते कथंचन । आगच्छेयुस्ततस्तत्स्यात्सुन्दरादपि ॥७०४॥ Jain Education in d For Private & Personel Use Only A mr.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy