________________
उपमिती अ.८-प्र.
॥७०५॥
राज्याधिपत्वं
सुन्दरम् ।। २०५ ॥ मुनिराह महाभाग!, गतोऽहं वचनेन ते । गुरून् विज्ञाप्य ते नूनं, पूरयिष्ये मनोरथम् ।। २०६॥ अथवा केवलालोकालोकिताखिलचेतसः । विज्ञाय भवतश्चित्तमागमिष्यन्ति ते स्वयम् ।। २०७ ॥ केवलं गृहिधर्मेऽत्र, सम्यग्दर्शनसंयुते । सदागमे
च कर्तव्यो, भवता तावदादरः ॥ २०८ ॥ ततश्च-इदं कन्दमुनेर्वाक्यमाकर्ण्य श्रुतिपेशलम् । महाप्रसाद इत्येवं, ब्रुवाणोऽहं सभार्यकः &॥ २०९ ॥ समित्रश्च तदा भद्रे !, विनयानम्रमस्तकः । प्रणम्य तं महाभाग, काननाद्भवने गतः ।। २१० ॥ युग्मम् । ततः सोऽपि
| महाभागो, मुनिर्मुनिवरैर्युतः । गतो निर्मलसूरीणां, गुरूणां पादवन्दकः ।। २११॥ अथ कालक्रमाद्भद्रे !, स राजा मधुवारणः । तदा ४ लोकान्तरीभूतः, पिता मे लब्धधर्मकः ॥ २१२ ॥ ततो राज्येऽभिषिक्तोऽहं, बन्धुमत्रिमहत्तमैः । महानन्दविमर्दैन, हर्षनिर्भरमानसैः &॥ २१३ ॥ ततः परिणतं राज्यं, रक्तं मे राजमण्डलम् । शत्रवः किङ्करीभूता, वशीभूताश्च खेचराः॥२१४ ॥ किं बहुना?-मरुतोMISपि ममाज्ञायां, वर्तन्ते नतमस्तकाः । वर्धते कोशदण्डौ च, जायन्ते सर्वसम्पदः ।। २१५ ॥ किं च-नाकुञ्चितं कचिच्चापं, न कृता
कोपदारुणा । दृष्टिस्तथापि मे जातं, राज्यं कण्टकवर्जितम् ।। २१६ ।। तथाप्येवंविधेऽनल्पसुखसन्दोहकारणे । विद्यमानेऽपि नो जातं, मम लौल्याकुलं मनः ॥ २१७ ॥ किं तर्हि ? -सदागमे सदोद्योगी, सम्यग्दर्शनतत्परः । पुण्योदयेन संयुक्तो, गृहिधर्मे कृतादरः ।। २१८ ।। सातेनाहादितो नित्यं, स्थितोऽहं सकुलंधरः । समं मदनमञ्जर्या, देववद्दिवि लीलया ॥ २१९ ॥ एवं च तिष्ठतस्तत्र, मनस्यानन्दसागरे । साम्राज्ये मम चार्वशि!, भूरिकालोऽतिलविन्तः ॥ २२० ।। अथान्यदा ममास्थाने, प्रविश्य प्रियदारकः । कल्याणो नाम मामेवं, प्रणिपत्य व्यजिज्ञपत् ॥ २२१ ॥ यदुत-आह्लादमन्दिरे देव!, देवदानवपूजिताः । समागता महाभागा, निर्मला नाम सूरयः ॥ २२२ ।। तच्छ्रुत्वाऽहं तदा भद्रे!, कल्याणवचनं मुदा । न मामि देहे नो गेहे, न पुरे न जगत्रये ॥ २२३ ॥ ततोऽ
निर्मलसू
योगमः
॥ ७०५॥
Jain Education Internet
For Private & Personel Use Only
A
njainelibrary.org