________________
CAS
उपमितौ
गलग्नसंयुक्तं, तस्मै संतुष्टचेतसा । दीनाराणां मया लक्षं, दापितं प्रियभाषिणे ॥ २२४ ॥ ततः सर्वादरेणाहं, सवयस्यः सभार्यकः ।। अ.८-प्र. निर्गतो नगराद्भद्रे !, सूरीणां पादवन्दकः ।। २२५ ॥ अथामरकृते दिव्ये, सत्कार्तस्वरभास्वरे । ते सूरयो मया दृष्टाः, कमले स्थितमू
दर्तयः ।। २२६ ।। वेष्टिता मुनिवृन्देन, देवदानवखेचरैः । तेभ्यो नम्रोत्तमाङ्गेभ्यः, कुर्वाणा धर्मदेशनाम् ॥ २२७ ॥ ततश्च–बृहदानन्दरो-1 ॥७०६॥
माञ्चभूषितः सह राजकैः । अहं भक्त्या विहायेदं, नारेन्द्र चिह्नपञ्चकम् ॥ २२८ ॥ तद्यथा-छत्रं खङ्गं किरीटं च, वाहनं च सचामरम् । ततः कृतोत्तरासङ्गः, प्रविष्टः सूर्यवग्रहे ।। २२९ ॥ ततो भगवतः सम्यग्, द्वादशावर्त्तवन्दनम् । दत्त्वा यथाक्रमं शेषान् , प्रणम्य मुनिपुङ्गवान् ॥ २३० ॥ लब्धाशीर्वादतुष्टात्मा, भूयो नत्वा मुनीश्वरम् । प्रीतः सपरिवारोऽहं, निषण्णः शुद्धभूतले ॥ २३१ ॥४॥ अथ कर्मविषोत्तारकारिणी भव्यदेहिनाम् । अमृतश्राविवाक्येन, गुरुणाऽऽरम्भि देशना ॥ २३२ ।। कथं?-'भो भव्याः शरणं धर्मो, निर्मलके"नास्त्यन्यत्सततभ्रमे । लसदुद्दामदुःखौघसङ्कले भवचक्रके ।। २३३ ॥ मरणाय भवे जन्म, कायो रोगनिबन्धनम् । तारुण्यं वलिदेशना "जरसो हेतुर्वियोगाय समागमः॥ २३४ ॥ निमित्तं विपदां लोके, देहिनां सर्वसम्पदः । तन्नास्ति यन्न दुःखाय, वस्तु "सांसारिकं जनाः ॥ २३५ ॥ एवं च स्थिते–अमूर्ताः सर्वभावज्ञास्त्रैलोक्योपरिवर्तिनः। क्षीणसङ्गा महात्मानः, केवलं सुख-द "मासते ॥ २३६ ॥ सर्वद्वन्द्वविनिर्मुक्ताः, सर्वावाधाविवर्जिताः । सर्वसंसिद्धसत्कार्याः, सुखं तेषां किमुच्यते ॥ २३७ ॥ किं च
"जन्माभावे जरामृत्योरभावो हेत्वभावतः । तदभावे च निःशेषदुःखाभावः सदैव हि ।। २३८ ॥ परमानन्दभावश्च, तदभावे हि शा Wश्वतः । व्याबाधाभावसंसिद्धं, सिद्धानां सुखमिष्यते ।। २३९ ॥ अथवा-त्यक्तबाह्येतरग्रन्था, निःस्पृहा भवचारके । संतुष्टा ध्यानयो- ॥७०६॥
"गेन, प्रशमामृतपायिनः ॥ २४० ।। निःसङ्गा निरहङ्कारा, निर्मलीभूतचेतसः । सुखिनः केवलं लोके, देहिनोऽपि सुसाधवः ।। २४१ ॥
Jain Education Intel
For Private Personel Use Only
n
ainelibrary.org