Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 349
________________ उपमिती अ.८-प्र. ॥७०५॥ राज्याधिपत्वं सुन्दरम् ।। २०५ ॥ मुनिराह महाभाग!, गतोऽहं वचनेन ते । गुरून् विज्ञाप्य ते नूनं, पूरयिष्ये मनोरथम् ।। २०६॥ अथवा केवलालोकालोकिताखिलचेतसः । विज्ञाय भवतश्चित्तमागमिष्यन्ति ते स्वयम् ।। २०७ ॥ केवलं गृहिधर्मेऽत्र, सम्यग्दर्शनसंयुते । सदागमे च कर्तव्यो, भवता तावदादरः ॥ २०८ ॥ ततश्च-इदं कन्दमुनेर्वाक्यमाकर्ण्य श्रुतिपेशलम् । महाप्रसाद इत्येवं, ब्रुवाणोऽहं सभार्यकः &॥ २०९ ॥ समित्रश्च तदा भद्रे !, विनयानम्रमस्तकः । प्रणम्य तं महाभाग, काननाद्भवने गतः ।। २१० ॥ युग्मम् । ततः सोऽपि | महाभागो, मुनिर्मुनिवरैर्युतः । गतो निर्मलसूरीणां, गुरूणां पादवन्दकः ।। २११॥ अथ कालक्रमाद्भद्रे !, स राजा मधुवारणः । तदा ४ लोकान्तरीभूतः, पिता मे लब्धधर्मकः ॥ २१२ ॥ ततो राज्येऽभिषिक्तोऽहं, बन्धुमत्रिमहत्तमैः । महानन्दविमर्दैन, हर्षनिर्भरमानसैः &॥ २१३ ॥ ततः परिणतं राज्यं, रक्तं मे राजमण्डलम् । शत्रवः किङ्करीभूता, वशीभूताश्च खेचराः॥२१४ ॥ किं बहुना?-मरुतोMISपि ममाज्ञायां, वर्तन्ते नतमस्तकाः । वर्धते कोशदण्डौ च, जायन्ते सर्वसम्पदः ।। २१५ ॥ किं च-नाकुञ्चितं कचिच्चापं, न कृता कोपदारुणा । दृष्टिस्तथापि मे जातं, राज्यं कण्टकवर्जितम् ।। २१६ ।। तथाप्येवंविधेऽनल्पसुखसन्दोहकारणे । विद्यमानेऽपि नो जातं, मम लौल्याकुलं मनः ॥ २१७ ॥ किं तर्हि ? -सदागमे सदोद्योगी, सम्यग्दर्शनतत्परः । पुण्योदयेन संयुक्तो, गृहिधर्मे कृतादरः ।। २१८ ।। सातेनाहादितो नित्यं, स्थितोऽहं सकुलंधरः । समं मदनमञ्जर्या, देववद्दिवि लीलया ॥ २१९ ॥ एवं च तिष्ठतस्तत्र, मनस्यानन्दसागरे । साम्राज्ये मम चार्वशि!, भूरिकालोऽतिलविन्तः ॥ २२० ।। अथान्यदा ममास्थाने, प्रविश्य प्रियदारकः । कल्याणो नाम मामेवं, प्रणिपत्य व्यजिज्ञपत् ॥ २२१ ॥ यदुत-आह्लादमन्दिरे देव!, देवदानवपूजिताः । समागता महाभागा, निर्मला नाम सूरयः ॥ २२२ ।। तच्छ्रुत्वाऽहं तदा भद्रे!, कल्याणवचनं मुदा । न मामि देहे नो गेहे, न पुरे न जगत्रये ॥ २२३ ॥ ततोऽ निर्मलसू योगमः ॥ ७०५॥ Jain Education Internet For Private & Personel Use Only A njainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422