Book Title: Upmitibhava Prapancha Katha Uttararddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 356
________________ उपमितौ अ. ८-प्र. ॥ ७१२ ॥ Jain Education Int भवानेवात्र नायकः || २६५ ॥ तथाहि - भवतो योग्यताऽपेक्षं, चेष्टन्ते सर्वकर्मसु । ते कर्मपरिणामाद्यास्त्वच्छुभाशुभहेतवः || २६६ ।। ततस्ते निजयोग्यत्वं, प्रधानं भूप ! कारणम् । सुन्दरेतरवस्तूनां ते पुनः सहकारिणः ॥ २६७ ॥ राजन्ननादिरूढा सा, विद्यते तव योग्यता । यया संपादितः सर्वः, प्रपञ्चोऽयममूदृशः ॥ २६८ ॥ तया विना पुनः सर्वे, सुन्दरेतरवस्तुषु । ते कर्मपरिणामाद्याः, किं कुर्वन्तु वराककाः ? || २६९ ॥ ततस्त्वमत्र प्राधान्यात्कारणत्वेन गीयसे । सुन्दरेतरकार्याणां सर्वेषामात्मभाविनाम् || २७० || मयोक्तं नाथ ! यद्येवं मम कार्यप्रसाधनम् । ततः किमियदेवात्र कारणानां कदम्बकम् ? || २७१ ॥ किंचान्यदपि विद्येत मम कार्यप्रसाधकम् ? । सूरिराह महाराज!, समाकर्णय साम्प्रतम् || २७२ || "याऽस्त्यसौ निर्वृतिर्नाम नगरी सुमनोहरा । निरन्तानन्दसन्दोहपरिपूर्णा निरा“मया || २७३ || तस्यामनन्तवीर्याढ्यः, सर्वज्ञः सर्वदर्शनः । अनन्तानन्दसंपूर्णः, सुस्थितः परमेश्वरः ॥ २७४ ॥ यो विद्यते महा - ४) सुस्थितकृ“राज !, सर्वस्य जगतः प्रभुः । सुन्दरेतरकार्याणां स ते परमकारणम् ।। २७५ || अनेकोऽप्येकरूपोऽसौ, गीयते वरसूरिभिः । अचि- ★ ते “न्त्यवीर्ययुक्तात्मा, परमात्मा स गद्यते ॥ २७६ ॥ स बुद्धः स विरिञ्चाख्यः, स विष्णुः स महेश्वरः । निष्कलः स जिनः प्रोक्तो, "दृष्टतत्त्वैर्महात्मभिः || २७७ ॥ न चेच्छया करोत्येष, तव कार्यपरम्पराम् । वीतरागो गतद्वेषो, निरिच्छोऽयं यतो मतः ।। २७८ ॥ "यथा तु कुरुते तात !, तवायं सुन्दरेतरम् । कार्यजातं तथा वच्मि, साम्प्रतं विशदाक्षरैः ।। २७९ ।। सिद्धा भगवतस्तस्य, निश्चला “सुप्रतिष्ठिता । अस्त्याज्ञा सर्वलोकानामाकालं करणोचिता ॥ २८० ॥ यदुत — निरन्धकारा कर्तव्या, चित्तवृत्तिः प्रभास्वरा । गोक्षी“रहारनीहारकुन्देन्दुविशदा सदा || २८१ ॥ गृहीत्वा रिपुवुद्ध्या च, महामोहादिकं बलम् । अनुक्षणं निहन्तव्यं, घोरसंसारकारणम् "|| २८२ ॥ बन्धुबुद्ध्याऽवधार्येदं, पोषणीयं च सर्वदा । चारित्रधर्मराजाद्यं सैन्यं कल्याणकारणम् ॥ २८३ ॥ इयमेतावती तस्य, For Private & Personal Use Only निजयो ग्यता सुख दुःखे ॥ ७१२ ॥ w.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422