________________
उपमितौ
अ. ८-प्र.
॥ ७१२ ॥
Jain Education Int
भवानेवात्र नायकः || २६५ ॥ तथाहि - भवतो योग्यताऽपेक्षं, चेष्टन्ते सर्वकर्मसु । ते कर्मपरिणामाद्यास्त्वच्छुभाशुभहेतवः || २६६ ।। ततस्ते निजयोग्यत्वं, प्रधानं भूप ! कारणम् । सुन्दरेतरवस्तूनां ते पुनः सहकारिणः ॥ २६७ ॥ राजन्ननादिरूढा सा, विद्यते तव योग्यता । यया संपादितः सर्वः, प्रपञ्चोऽयममूदृशः ॥ २६८ ॥ तया विना पुनः सर्वे, सुन्दरेतरवस्तुषु । ते कर्मपरिणामाद्याः, किं कुर्वन्तु वराककाः ? || २६९ ॥ ततस्त्वमत्र प्राधान्यात्कारणत्वेन गीयसे । सुन्दरेतरकार्याणां सर्वेषामात्मभाविनाम् || २७० || मयोक्तं नाथ ! यद्येवं मम कार्यप्रसाधनम् । ततः किमियदेवात्र कारणानां कदम्बकम् ? || २७१ ॥ किंचान्यदपि विद्येत मम कार्यप्रसाधकम् ? । सूरिराह महाराज!, समाकर्णय साम्प्रतम् || २७२ || "याऽस्त्यसौ निर्वृतिर्नाम नगरी सुमनोहरा । निरन्तानन्दसन्दोहपरिपूर्णा निरा“मया || २७३ || तस्यामनन्तवीर्याढ्यः, सर्वज्ञः सर्वदर्शनः । अनन्तानन्दसंपूर्णः, सुस्थितः परमेश्वरः ॥ २७४ ॥ यो विद्यते महा - ४) सुस्थितकृ“राज !, सर्वस्य जगतः प्रभुः । सुन्दरेतरकार्याणां स ते परमकारणम् ।। २७५ || अनेकोऽप्येकरूपोऽसौ, गीयते वरसूरिभिः । अचि- ★ ते “न्त्यवीर्ययुक्तात्मा, परमात्मा स गद्यते ॥ २७६ ॥ स बुद्धः स विरिञ्चाख्यः, स विष्णुः स महेश्वरः । निष्कलः स जिनः प्रोक्तो, "दृष्टतत्त्वैर्महात्मभिः || २७७ ॥ न चेच्छया करोत्येष, तव कार्यपरम्पराम् । वीतरागो गतद्वेषो, निरिच्छोऽयं यतो मतः ।। २७८ ॥ "यथा तु कुरुते तात !, तवायं सुन्दरेतरम् । कार्यजातं तथा वच्मि, साम्प्रतं विशदाक्षरैः ।। २७९ ।। सिद्धा भगवतस्तस्य, निश्चला “सुप्रतिष्ठिता । अस्त्याज्ञा सर्वलोकानामाकालं करणोचिता ॥ २८० ॥ यदुत — निरन्धकारा कर्तव्या, चित्तवृत्तिः प्रभास्वरा । गोक्षी“रहारनीहारकुन्देन्दुविशदा सदा || २८१ ॥ गृहीत्वा रिपुवुद्ध्या च, महामोहादिकं बलम् । अनुक्षणं निहन्तव्यं, घोरसंसारकारणम् "|| २८२ ॥ बन्धुबुद्ध्याऽवधार्येदं, पोषणीयं च सर्वदा । चारित्रधर्मराजाद्यं सैन्यं कल्याणकारणम् ॥ २८३ ॥ इयमेतावती तस्य,
For Private & Personal Use Only
निजयो
ग्यता
सुख
दुःखे
॥ ७१२ ॥
w.jainelibrary.org