________________
उपमितौ अ.८-प्र.
सुस्थितकृते सुख
॥७१३॥
"सर्वलोकसमाश्रया । वर्तते नृपतेराज्ञा, विधातुहितकारिणी ।। २८४ ॥ संपूजनेन ध्यानेन, स्तवेन व्रतचर्यया । इयमेव विधातव्या, "तदाज्ञा तस्य सेवकैः ॥ २८५ ॥ निषिद्धाचरणैः सर्वैरियमेव विराध्यते । तदुक्तद्वादशाङ्गार्थः, सर्वोऽप्यस्यां व्यवस्थितः ।। २८६ ॥ तां “च यो यावतीं लोके, विदधाति नरः सदा । अजानन्नपि तद्रूपं, तस्य तावद्भवेत्सुखम् ।। २८७ ॥ केवलं-यस्तु तां लक्ष्यन्नाज्ञां, "विपरीतं विचेष्टते । जानन्नपि च तद्रूपं, स भवेहुःखभाजनम् ॥ २८८ ॥ यो यावत्कुरुते मोहात्तदाज्ञालङ्घनं जनः । तस्य तावद्भवे"दुःखं, यथा तत्करणे सुखम् ।। २८९ ॥ एवं च स्थिते-तदाज्ञालङ्घनाडुःखं, तदाज्ञाकरणात्सुखम् । यतः संपद्यते सर्व, सर्वे“षामपि देहिनाम् ।। २९० ॥ अणुमात्रमपि तन्नास्ति, भुवनेऽत्र शुभाशुभम् । तदाज्ञानिरपेक्षं हि, यज्जायेत कदाचन ।। २९१ ॥ तेने"च्छारागविद्वेषरहितोऽपि स भूपतिः । निर्वृतिस्थोऽपिकार्याणां, ज्ञेयः परमकारणम् ॥ २९२ ॥ स एव परमो हेतुरतस्ते गुणधारण!। "सुन्दरेतरकार्याणां, सर्वेषां नात्र संशयः ॥ २९३ ॥ तदाज्ञालङ्घनात्पूर्व, जाता ते दुःखमालिका । अधुना तत्करत्वेन, सुखलेशोऽयमी"दृशः ॥२९४ ॥ यदा तु तस्य संपूर्णामाज्ञप्तिं तां करिष्यसि । तदा यः सुखसन्दोहस्तस्य विज्ञास्यसे रसम् ॥ २९५ ॥” तदेवं परमार्थेन, सर्वेऽमी तव हेतवः । प्रधानगुणभावेन, विज्ञेयाः सर्वकर्मसु ।। २९६ ॥ एकेनापि विना भूप!, कार्यसिद्धिर्न विद्यते । अमीषां प्रोक्तहेतूनां, समाजः कार्यकारकः ।। २९७ ॥ मयोक्तं कारणग्रामः, किं पूर्णोऽयं निवेदितः । एतावानेव किंवाऽस्ति, नाथान्यदपि कारणम् ? ॥ २९८ ॥ सूरिराह महाराज!, प्रायशः प्रतिपादितः । एतावानेव हेतूनां, मीलकः कार्यसाधकः ।। २९९ ॥ अत्रैव शेषहेतूनामन्तर्भावो हि विद्यते । यथा यदृच्छानियती, प्रविष्टे भवितव्यताम् ॥ ३०० ।। ततो निर्नष्टसन्देहस्तदाऽहं वरलोचने! । प्रतिपद्य गुरोर्वाक्यं, तत्तथेति कृताञ्जलिः ॥ ३०१ ॥ पृष्टवानपरं सूरि, सन्देहं मानसे स्थितम् । गाढमद्भुतहेतुत्वात्पूर्वकाले वितर्कितम् ॥ ३०२॥
॥७१
SK
Jain Education International
For Private
Personal Use Only
jainelibrary.org