SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ पुण्यपापो उपमिती अ.८-प्र. ॥७११॥ तेऽन्तराऽन्तरा । संपन्नं च सुखं भूप!, तन्माहात्म्येन किंचन ।। २४७ ॥ क्वचित्पापोदयो भूयस्तैरेव निकटीकृतः । ततस्त्वं दाखितोतापुण्ण दयौ सेजातः, परित्यक्तः सदागमः ॥ २४८ ।। एवं च-आलोच्याऽऽलोच्य यत्कृत्यमेकवाक्यतया पुरा । अमीभिर्भूप! निःशेषभवत्कार्यवि नान्यो चिन्तकैः ।। २४९ ।। अनन्तवाराः संसारे, पुण्योदयसमन्वितः । पापोदयं तिरोधाय, मीलितस्ते सदागमः ।। २५०॥ यदा तु गृहिधर्मेण, सम्यग्दर्शननामकः । युक्तः पार्श्वे तवानीतोऽमीभिरेव स्वतेजसा ।। २५१ ॥ तदा पुनरसौ त्वत्तोऽमीभिर्दूरतरीकृतः । पापोदयः। | सैन्ययुतस्तव चोत्पादितं सुखम् ।। २५२ ।। युग्मम् । यतः पुण्योदयोपेतो, नीतस्त्वं विबुधालये । आनीतो मानवावासे, कृता कल्या-| णमालिका ।। २५३ ॥ पुनश्च सर्वैः संभूय, तैरेव निकटीकृतः । पापोदयः ससैन्यस्ते, त्याजिताश्च सुबान्धवाः ॥ २५४ ॥ एवं चासपवारास्ते, कृतौ विरहमीलको । अमीभिर्यावदानीतस्त्वमत्र नृपमन्दिरे ॥ २५५ ॥ ततोऽधुनाऽस्ति दूरस्थो, गाढं पापोदयस्तव । स-1 सैन्यो वर्तते तेन, तष्णीमास्ते नरोत्तम! ।। २५६ ॥ तैः कर्मपरिणामाद्यैरेते तु निकटीकृताः । साम्प्रतं ते महाभागाः, सातपुण्योदया-IX दयः ॥ २५७ ॥ किं च न विद्यतेऽनुबन्धोऽस्य, तेन पापोदयेन भोः । तेनायं तेऽधुना भूप!, जातः पुण्योदयोऽनघः ॥ २५८ ॥ अनेन तेऽधुना शस्या, लौल्यनिर्मुक्तमानसा । ईदृशीयं महाराज!, जनिता सुखमालिका ॥ २५९ ॥ किं बहुना?-चेष्टन्ते सर्वकार्येषु, सुन्दरासुन्दरेषु ते । तान्येव स्वप्नदृष्टानि, मानुषाणि न संशयः ॥ २६० ॥ यदा हि प्रतिकूलानि, वर्तन्ते तानि ते तदा । पापोदयं पुरस्कृत्य, दुःखमुत्पादयन्त्यलम् ॥ २६१ ।। अनुकूलानि तान्येव, कारणैरपरापरैः । पुण्योदयेन ते तात!, कारयन्ति सुखासिकाम् ॥२६२॥ * यत्प्राप्त प्राप्स्यते यञ्च, भवताऽत्र शुभाशुभम् । नित्यं तत्रोपयुक्तानि, तान्येव ननु कारणम् ।। २६३ ॥ मयोक्तं भगवन्नत्र, विधातव्ये | |शुभाशुभे । किमकिंचित्करो वर्ते, सर्वथाऽहं बताऽऽत्मना ।। २६४ ॥ सूरिराह महाराज!, मैवं मंस्थाः कदाचन । परिवारस्तवामूनि, MCOMSEX Jain Education in For Private & Personel Use Only Tww.jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy