SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उपमिती अ. ८-अ. ॥७१०॥ MC- 2282 निजवर्गतया महामोहादिवत्सलोऽपि भवतोऽत्र बलद्वये साधारणमात्मानं दर्शयति, ज्वलद्वितापकः खल्वेष स्वरूपेण यदा यदेव तयो- पुण्यपापोबलवत्सैन्यमुपलभते तदा तदेवोपबृंहयति, तस्य च कर्मपरिणामस्य द्वौ सेनापती-एकः पापोदयो द्वितीयोऽयमेव पुण्योदय इति, स च४ यमव पुण्योदय इति, स च दयौ सेपापोदयस्ते गाढं प्रतिकूल: स्वरूपेण, अत एव कर्मपरिणामस्य सम्बन्धि यत्तव वेरिभूतमेकान्तेनासुन्दरं सैन्यं तदेवासावधिकरुते, पण्यो- नान्यौ दयस्तु तवानुकूलः अत एव कर्मपरिणामस्य सत्कं यत्ते बन्धुभूतं सुन्दरमनीकं तदेवायमधिकुरुते, स च पापोदयस्तवानादिरूटोऽसंव्यवहारनगरादारभ्याभिव्यक्तरूपः सखाऽभूदेव, ततः सुप्रसिद्धत्वान्न दर्शितस्ते कचिदप्यसौ विशेषतो भवितव्यतया, ततस्त्वस्येदं महाराज! गुणधारण समस्तं माहात्म्यं यत्ते संपन्नमनन्तकालमेवं परिभ्रमणं संभूता भूरिदुःखसन्ततयः परिकल्पितं हिंसादिपु हितत्वं न लक्षितोऽयं हितकरणशीलः पुण्योदयः, अन्यत्र-तेनैव पापोदयेन बहिष्कृतस्त्वं तस्माचित्तवृत्तिवर्तिनः स्वकीयादन्तरङ्गमहाराज्यात तेनैव चाभिभूय प्रच्छादितं तव स्वाभिकमेकान्तहितं चारित्रधर्मराजादिकमन्तरङ्गवलं तेनैव चानवरतं पारितोषिकमेकान्ताहितमपि बन्ध| भूतं च दर्शितं महामोहादिसैन्यं वष्टतया च प्रकटितस्ते पुरतो वत्सलमित्ररूपतयाऽऽत्मा, तथाऽयमपि पुण्योदयस्तदा तेन पापोदयेनानुबद्धो यद्यपि ते सुखकारणमभूत् तथापि न कल्याणपरंपराहेतुतां प्रतिपन्न इति, तन्नास्य वराकस्य दोषोऽसौ, किं तर्हि ?, तस्यैव दुरात्मनः सर्वोऽप्ययं दोष इति, मयोक्तं-भगवन्निदानीं किमित्यसौ पापोदयस्तूष्णीमास्ते ?, भगवतोक्तं-महाराज! न स्वतन्त्रः खल्वसौ, किं| तर्हि ?, सोऽप्यमीषां कर्मपरिणामकालपरिणतिस्वभावभवितव्यतादीनामायत्तो वर्तते, ततोऽमीभिरेव साम्प्रतं भवतः सकाशाद्दरीकृतोऽसौ| दरात्मा, तथाहि-यतः प्रभृति भवत्समीपममीभिरनुज्ञातः समागतः सदागमस्तत एवारभ्य निवर्तिता तस्यामीभिः प्रबलता, ततः ॥ ७१०॥ ईषदूरस्थितस्तेऽसौ, न जातो दुःखकारणम् । पापोदयोऽवकाशस्तु, लब्धः पुण्योदयेन च ॥ २४६ ॥ ततः सदागमे प्रीतिः, संजाता Jain Education inte For Private & Personal Use Only Unjainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy