________________
उपमिती अ. ८-अ.
॥७१०॥
MC- 2282
निजवर्गतया महामोहादिवत्सलोऽपि भवतोऽत्र बलद्वये साधारणमात्मानं दर्शयति, ज्वलद्वितापकः खल्वेष स्वरूपेण यदा यदेव तयो- पुण्यपापोबलवत्सैन्यमुपलभते तदा तदेवोपबृंहयति, तस्य च कर्मपरिणामस्य द्वौ सेनापती-एकः पापोदयो द्वितीयोऽयमेव पुण्योदय इति, स च४
यमव पुण्योदय इति, स च दयौ सेपापोदयस्ते गाढं प्रतिकूल: स्वरूपेण, अत एव कर्मपरिणामस्य सम्बन्धि यत्तव वेरिभूतमेकान्तेनासुन्दरं सैन्यं तदेवासावधिकरुते, पण्यो- नान्यौ दयस्तु तवानुकूलः अत एव कर्मपरिणामस्य सत्कं यत्ते बन्धुभूतं सुन्दरमनीकं तदेवायमधिकुरुते, स च पापोदयस्तवानादिरूटोऽसंव्यवहारनगरादारभ्याभिव्यक्तरूपः सखाऽभूदेव, ततः सुप्रसिद्धत्वान्न दर्शितस्ते कचिदप्यसौ विशेषतो भवितव्यतया, ततस्त्वस्येदं महाराज! गुणधारण समस्तं माहात्म्यं यत्ते संपन्नमनन्तकालमेवं परिभ्रमणं संभूता भूरिदुःखसन्ततयः परिकल्पितं हिंसादिपु हितत्वं न लक्षितोऽयं हितकरणशीलः पुण्योदयः, अन्यत्र-तेनैव पापोदयेन बहिष्कृतस्त्वं तस्माचित्तवृत्तिवर्तिनः स्वकीयादन्तरङ्गमहाराज्यात तेनैव चाभिभूय प्रच्छादितं तव स्वाभिकमेकान्तहितं चारित्रधर्मराजादिकमन्तरङ्गवलं तेनैव चानवरतं पारितोषिकमेकान्ताहितमपि बन्ध| भूतं च दर्शितं महामोहादिसैन्यं वष्टतया च प्रकटितस्ते पुरतो वत्सलमित्ररूपतयाऽऽत्मा, तथाऽयमपि पुण्योदयस्तदा तेन पापोदयेनानुबद्धो यद्यपि ते सुखकारणमभूत् तथापि न कल्याणपरंपराहेतुतां प्रतिपन्न इति, तन्नास्य वराकस्य दोषोऽसौ, किं तर्हि ?, तस्यैव दुरात्मनः सर्वोऽप्ययं दोष इति, मयोक्तं-भगवन्निदानीं किमित्यसौ पापोदयस्तूष्णीमास्ते ?, भगवतोक्तं-महाराज! न स्वतन्त्रः खल्वसौ, किं| तर्हि ?, सोऽप्यमीषां कर्मपरिणामकालपरिणतिस्वभावभवितव्यतादीनामायत्तो वर्तते, ततोऽमीभिरेव साम्प्रतं भवतः सकाशाद्दरीकृतोऽसौ| दरात्मा, तथाहि-यतः प्रभृति भवत्समीपममीभिरनुज्ञातः समागतः सदागमस्तत एवारभ्य निवर्तिता तस्यामीभिः प्रबलता, ततः
॥ ७१०॥ ईषदूरस्थितस्तेऽसौ, न जातो दुःखकारणम् । पापोदयोऽवकाशस्तु, लब्धः पुण्योदयेन च ॥ २४६ ॥ ततः सदागमे प्रीतिः, संजाता
Jain Education inte
For Private & Personal Use Only
Unjainelibrary.org