________________
उपमितौ
स. ७ प्र.
॥ ६६१ ॥
उ. भ. ५६
Jain Education Inte
भूतयः । यच्च पौद्गलिकं किंचिञ्चित्ताबन्धविधायकम् ।। ६२५ ॥ सदागमस्तदाचष्टे, यथेदं क्षणभङ्गुरम् | दुःखात्मकं मलक्लिन्नं, निःस्वभावं बहिश्चरम् || ६२६ ॥ तदत्र मूर्च्छा मा कार्षीर्मा कार्षीर्धनवाहन ! । आत्मा ते ज्ञानसद्वीर्यदर्शनानन्दपूरितः ॥ ६२७ ॥ ततस्तत्रैव युक्तस्ते, चित्ताबन्धो नरोत्तम ! । येन त्वं निर्वृतिं यासि, सतताहादसुन्दरम् || ६२८ ॥ चतुर्भिः कलापकम् । महामोहस्तु मे सर्व, तद्राज्यं ताच सम्पदः । गात्रं शब्दादिभोगांश्च यच्चान्यदपि तादृशम् ॥ ६२९ । स्थिरं सुखात्मकं चारु, निर्मलं हितमुत्तमम् । इत्येवं कथयत्युच्चैरुपदेशं ४ च यच्छति ।। ६३० ॥ युग्मम् । यदुत - नास्ति जीवो न वा देवो, न मोक्षो न पुनर्भवः । न पुण्यपापे सद्भुते, भूतमात्रमिदं जगत् ॥ ६३१ ॥ अतो यावदयं देहो, विद्यते घनवाहन ! । यथेष्टचेष्टया तावत्पिब खाद दिवानिशम् ॥ ६३२ ॥ सद्भोगैः प्रीणयाऽऽत्मानं, | मानयामललोचनाः । सुखं भुंक्ष्व यथाकामं, मा मूढवचनं कृथाः ॥ ६३३ ॥ परिग्रहस्तु मां ब्रूते, यथा भो घनवाहन ! । हिरण्यधा| न्यरत्नादिसम्भारं कुरु यत्नतः ॥ ६३४ ॥ यः प्राप्तं पालयत्यर्थमप्राप्तं ढौकयत्यलम् । न च सन्तोषमादत्ते, तस्य सौख्यम - नारतम् || ६३५ || अहं तु त्रितयस्यापि वाक्यमाकर्ण्य तादृशम् । ईषदोलायितश्चित्ते, यावज्जातः सुलोचने ! ।। ६३६ ॥ महामोहबलेनासौ, ज्ञानसंवरणो नृपः । तावद्भयं परित्यज्य, मम पार्श्वे व्यवस्थितः ॥ ६३७ ॥ ततः सदागमेनोक्तं यत्तद्वाक्यं मनोहरम् । तस्यार्थो न मया ज्ञातस्तेन चित्तं न रञ्जितम् ॥ ६३८ ॥ यदाहतुः पुनर्भद्रे !, महामोहपरिग्रहौ । तलनं मामके चित्ते, यथा रङ्गः सुपासते ।। ६३९ ।। ततोऽहं तत्परित्यज्य, देववन्दनपूजनम् । नमस्कारादिपाठं च, संजातो भोगमूच्छितः ॥ ६४० ॥ दानं च साधु| वर्गादेर्विनिवार्य ततः परम् । धनसङ्ग्रहणे रक्तः, पीडयामि करैर्जनम् ॥ ६४१ ॥ सर्वसांसारिकार्थेषु, मूर्च्छा गाढं विवर्धते । स महामोहवीर्येण, रोचते न सदागमः ॥ ६४२ ॥ तथाऽपि परिग्रहस्य वीर्येण, सर्वथा न्यूनचेतसः । न ममेच्छा तदा पूर्णा, प्राप्तैः सर्वधनै
For Private & Personal Use Only
सदागममहामोह
परिग्रहोदितिः
॥ ६६१ ॥
v.jalnelibrary.org