________________
उपमितौ स.७-प्र.
मोहपरिग्रहागमः
स्मादेतत्प्रयोजनम् । कुठारच्छेद्यतां कुयोन्नखच्छेद्यं न पण्डितः॥ ६०७ ।। अथामात्यवचः श्रुत्वा, महामोही महासभा । सा स- दागमरोषेण, सर्वा क्षोभमुपागता ॥ ६०८ ॥ कृतभ्रुकुटिहुकारा, दृष्टोष्ठा भूमिताडिनः । एककालं महायोधाः, सर्वे भाषितुमुद्यताः ॥ ६०९॥ कथं!-मया स देव! हन्तव्यो, गत्वा पापः सदागमः । इत्येकैको महायोधो, महामोहमभाषत ॥ ६१० ॥ तेनापि गदितं वत्साः!, कुर्वन्तीदं भवादृशाः । किं तु स्वयं स हन्तव्यो, मया गत्वा दुरात्मकः ।। ६११ ॥ येनाभिभूतः पापेन, ज्ञानसंवरणो नृपः । मत्प्रयुक्तः स्वहस्तेन, स मे बर्हणमर्हति ॥ ६१२ ।। अन्यच्च-समुदायात्मको वत्सा!, वर्तेऽहं भो भवादृशाम् । अतो मया हतः सर्वैर्युष्माभिहत एव सः॥ ६१३ ॥ तथा-गते मयि गताः सर्वे, यूयं घातार्थमर्थतः । अतो गच्छाम्यहं वत्सा!, यूयमत्रैव तिष्ठत ॥ ६१४ ॥ किंतु-प्रतिजागरणीयोऽहं, गतस्तत्रान्तरान्तरा । सर्वैरेव यथायोग, भवद्भिः खामिवत्सलैः ।। ६१५ ॥ अन्यच्च-योऽयं परिग्रहो वत्सा!, वल्लभो मे विशेषतः । रागकेसरिपुत्रस्य, सागरस्य वयस्यकः ॥ ६१६ ॥ नाहमेनं परित्यज्य, तत्र गन्तुं समुत्सहे। अयमेव महावीर्यः, सहायो मम सुन्दरः ॥६१७॥ युग्मम् । ततश्च-अहमेकं गृहीत्वैनं, सत्सहायं परिग्रहम् । गच्छामि त्वरितं तत्र, सदागमजिघांसया ॥ ६१८ ॥ ततो विज्ञाथ निर्बन्धं, सर्वैः प्रणतमस्तकैः । एवं विधीयतां देव!, तद्वचः परिपूरितम् ॥ ६१९ ॥ ततः समागतौ भद्रे!, महामोहपरिग्रहौ । मत्समीपं कृतोत्साही, मया चेमौ विलोकितौ ॥ ६२० ॥ ततो मे स्नेहसम्बन्धस्ताभ्यां सार्ध सुनिर्भरः । अनाद्यभ्यासयोगेन, संजातस्तारलोचने! ।। ६२१ ॥ इतश्चोपरतस्तातः, स जीमूतो नरेश्वरः । अहं च स्थापितो राज्ये, बन्धुमन्त्रिमहत्तमैः ॥ ६२२ ॥ प्रणताः सर्वसामन्ता, रिपवो भृत्यतां गताः । ततः परिणतं राज्य, भूरिभूतिमनोहरम् ।। ६२३ ॥ स च पुण्योदयस्तस्य, मम राज्यस्य कारणम् । महामोहयुतेनासौ, किं तु नो लक्षितो मया ॥ ६२४ ॥ इतश्व-शरीरं विषया राज्यं, विविधाश्च वि
॥६६॥
Jain Education in
For Private
Personel Use Only
jainelibrary.org