________________
इसी भांति 'एको ब्राह्मण:' यहां जाति के अनुसार ब्राह्मणमात्र की उपस्थिति में 'एक' पद की सार्थकता है । 'द्वो ब्राह्मणो' यहां 'द्वि' पद की द्रुत बोधकता में सार्थकता है । 'यो ब्राह्मणाः' इत्यादि बहुवचनान्त प्रयोगों में बहुत्व से अवच्छिन्न ब्राह्मणत्व में सार्थकता है
एवमेको ब्राह्मण इत्यत्र जातिपुरस्कारेण ब्राह्मणमात्रोपस्थितावेकपदं सार्थकम् । द्वौ ब्राह्मणावित्यत्र द्विपदं द्र तबोधाय सार्थकम् । त्रयो ब्राह्मणाश्चत्वारो ब्राह्मणाः पञ्च षड्वेत्यादौ तु बहुवचनेन बहुत्वावच्छिन्नब्राह्मणोपस्थितो त्रिचतुरादीनान्तु तद्व्यावर्त्तकतया सार्थकत्वमेति निष्कर्षः । १४२
सारमंजरी को परिवद्धितव्याख्या
सौभाग्य से 'सारमंजरी' पर पण्डित आशुबोध विद्याभूषण विरचित 'परिवर्द्धितव्याख्या' उपलब्ध है जो कि अति महत्त्वपूर्ण है । यह व्याख्या मात्र मूलग्रन्थपंक्तिसाधिका ही नहीं है प्रत्युत यथोचित निर्णय की भूमिका का भी निर्वहन करती है । व्याख्याकार द्वारा सारमंजरीकार से हटकर अपना स्वतन्त्र चिन्तन भी पदे पदे प्रस्तुत किया गया है । फलतः इस व्याख्या से मूलग्रंथ (सारमंजरी) का महत्त्व अतिशय रूप से उजागर हुआ है । प्रकृत व्याख्या के कतिपय मौलिक दृष्टांत उदाहरण के रूप में यहां प्रस्तुत हैं
लकारा: खलु दशविधाः लुट् लट् लिट् लुट् लेट् लोट् चेति टकारेताः षट् । लङ् लिङ लुङ् लृङ् चेति ङितश्चत्वार इति । तर्कालङ्कारेणैतेषां विशेषतः प्रयोगस्थानानि उदाह्रियन्ते विशदम्; अत्राह हरिः 'वर्तमाने परोक्षे श्वो भाविन्यर्थे भविष्यति । विध्यादौ प्रेरणादौ च भूतमात्रे लङादयः । सत्यां क्रियातिपत्तौ च भूते भाविनि लुङ् स्मृत:' इति । १४५
अत्रेदं बोध्यं यत्र चिकीर्षादेः प्रवृत्त्यादिरूपेष्टसाधनत्वं तत्र चिकीर्षादिगोचरेच्छासत्त्वेऽपि इच्छार्थकसन्नन्तान सन्प्रत्ययः 'सन्नन्तान्न सनिष्यते' इत्यनुशासनाच्चिकीर्षिषतीत्यादिको न प्रयोगः । १४४
यस्य च भावेन भावलक्षणमिति पाणिनिसूत्रेण विहिता सप्तमी सतिसप्तमी । इह खलु समानदेशकालाभ्यां परिच्छेदकत्वरूपलक्षणमर्थस्तेन गोषु दुह्यमानास्वागत इत्यादी गोदोहनक्रिया कालेनागमनकालपरिच्छेदाद्गवादेः सप्तमी । गुणे स द्रव्यत्वमस्तीत्यादी तु गुणसत्ताया द्रव्यसत्ताधिकरणदेशपरिच्छेदकत्वाद् गुणवाचकात्सप्तमीति बोध्यम् । प्रसिद्धञ्च निर्ज्ञातदेशकालक्रियाया अनिर्ज्ञातदेशकालयोः परिच्छेदकत्वं तस्याश्च कदाचित्स्वसमानकालेन कदाचिच्च सपूर्वोत्तरकालाभ्यां च तथात्वम्; तेन दुग्धासु धोक्ष्यमाणासु गोष्वित्यादौ सिद्धिः । १४५
बहुव्रीहित्वं समस्यमानपदातिरिक्तपदार्थबोधकत्वञ्चेति । स च द्विविधस्तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च समुदायोपस्थाप्ये गुणीभूतस्यापि पदार्थस्य समुदायान्वितेऽन्वयबोधकस्तद्गुणबहुव्रीहिर्यथा लम्बकर्णमानयेत्यादी कर्णस्याप्यानयनेऽन्वयस्तद्विना धर्मिणोऽप्यानयनासम्भवात्सम्भवे वा तद्वैशिष्ट्येनं वानयनान्वयात्तस्थानयनेऽन्वयः । तद्भिन्नोऽतद्गुणस्तथाहि दृष्टसमुद्रमानयेत्यादी समुद्रस्यानयनानन्वयात्तथात्वमिति । किञ्च
तुलसी प्रशा
८६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org