Book Title: Trishashti Shalaka Purush Charitram
Author(s): Jineshchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 144
________________ त्रिषष्टिशलाकापुरुषचरित्रम् भगवन् ! कुतः सुतारायां मेऽनुराग इति ।। केवलिना सत्यभामाभववृत्तान्तः सविस्तरं कथितः । अमिततेजसोऽपि श्रीषेणाद्याः प्राग्भवा आगामिनश्च श्रीशान्तिनाथभवं यावत् सर्वे सविस्तरं कथिताः । श्रीविजयश्च श्रीशान्तिनाथस्य प्रथमः पुत्रः प्रथमश्च गणधरो भविष्यति इति कथितम् । प्रतिपन्नोऽमिततेजः श्रीविजयाभ्यां श्रावकधर्मः । अशनिघोषेण गृहीतं व्रतम् । श्रीविजयमाता स्वयम्प्रभाऽपि प्रव्रजिता । केवलिनं नत्वा गताः सर्वेऽपि स्वं स्वं स्थानम् ।। ११५ अन्यदाऽमिततेजः श्रीविजययोर्नन्दनवनगतयोर्ज्ञानिना षड्विंशतिदिनावशेषमायुः कथितम् । तत स्वं स्वं स्थानं गत्वा चैत्याऽष्टाह्निकादानादिपूर्वं राज्यं परित्यज्याऽभिनन्दनजगन्नन्दनयोः पार्श्वे प्रव्रज्य द्वाभ्यामप्यनशनं गृहीतम् । श्रीविजयेन च पितृवैभवादाऽऽत्मवैभवं हीनं स्मृत्वाऽर्द्धचक्रित्वलाभाय निदानं कृतम् । समाधिना च द्वावपि मृत्वा प्रणते कल्पे विंशतिसागरोपमायुष्कौ देवौ जातौ ।। I 1 जम्बूद्वीपे पूर्वविदेहे रमणीयविजये शुभायां पुर्यां स्तिमितसागरो राजा । वसुन्धराऽनुद्धरा च द्वे भार्ये । प्रणतादमिततेजो जीवश्च्युत्वा वसुन्धरायाः कुक्षाववतीर्णः । इभेन्दू वृषभः सर इति चतुःस्वप्नसूचित - बलभद्रजन्मा समये जातः सुतः । कृतमपराजित इति तस्य नाम । श्रीविजयजीवोऽपि प्रणताच्युत्वाऽनुद्धरायाः कुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्निरत्नसञ्चय इति सप्तस्वप्रसूचितार्द्धचक्रिजन्मा समये जातः सुतः । कृतमनन्तवीर्य इति नाम । प्राप्तौ द्वावप्यन्योन्यप्रीतिं यौवनं च । राजापि स्तिमितसागरस्तुरगवाह्यालीं गतः सन्नुद्यानं प्रविष्टः तत्र दृष्टः साधुः । प्रतिबोधितस्तेन धर्मदेशनया । ततोऽनन्तवीर्यं विन्यस्य राज्ये स्वयं स्वयम्प्रभमुनिसमीपे प्रव्रजितः । कृतमनुष्ठानप्रभृतिकम् । अन्ते पुनविराधितश्रामण्यो मृत्वा जातश्चमरेन्द्रः ।। Jain Educationa International अनन्तवीर्योऽपि अपराजितेन समं राज्यं पालयन्नेकेन विद्याधरेण. बर्बरीचिलातीति विद्याद्वयं शिक्षितः । ते च सिद्धे सत्यौ रम्भादिभ्योऽप्यभ्यधिकं गीतं नृत्तं(-तं) च कुरुतः । साधिते विधिपूर्वमनेन । कुरुतश्च ते तदग्रे प्रत्यहं सङ्गीतम् । For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234