Book Title: Trishashti Shalaka Purush Charitram
Author(s): Jineshchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 175
________________ त्रिषष्टिशलाकापुरुषचरित्रम् वैश्रवणस्यापि जीवो वैजयन्तायुत्वा हस्तिनापुरेऽदीनशत्रुर्नाम नृपः सम्पन्नोऽस्ति । इतश्च श्रीमल्लेरनुजेन मल्लनाम्ना स्वावासे कारिता चित्रशालिका । चित्रकराणां च मध्ये एकाङ्गदर्शनात् सर्वाङ्गलेख्यलब्धिमानेकश्चित्रकरोऽस्ति । तेन जवनिकान्तःस्थितायाः श्रीमल्लेः पादाङ्गुष्ठो दृष्टः । ततः सर्वाङ्गोपाङ्गसहितं तद्रूपं तेन यथावस्थितं तत्र लिखितम् । यदा च तत्र क्रीडितुं मल्लः समायातस्तदा चित्रस्थां मल्लिमालोक्य सहसैव लज्जितोऽपसृतः । ततो धात्र्या सम्यग् निरूप्य प्रोक्तम्- देव ! चित्रप्रतिकृतिरियं मान्यथा सम्भावयतु स्वामीति । ततः कुपितेन मल्लेन तच्चित्रकारकस्य शिल्पिनः करसन्दंशकोऽकर्त्यत निर्वासितश्च स्वरात् । स चक्रमेण गतो हस्तिनापुरे। अदीनशत्रुणा तन्मुखादखिलमपि श्रीमल्लिससत्त्वं रूपप्रभृतिकं स्वरूपमधिगतम्। सोऽपि प्राग्जन्मानुरागप्रभावविवशस्तां वरीतुं कुम्भनृपपार्श्वे प्रजिघाय स्वदूतम् ।। १४६ अभिचन्द्रजीवोऽपि वैजयन्ताच्युत्वा काम्पिल्यपुरे जितशत्रुर्नाम नृपो जातोऽस्ति। मिथिलायां च चोक्षा नाम परिव्राजिकाऽन्तः पुरस्त्रीणां स्वधर्ममुपदिशन्ती मल्लिस्वामिन्या निर्जित्य निर्वासिता । सा च काम्पिल्ये गत्वा जितशत्रुनृपस्य पुरः प्रसङ्गागतं श्रीमल्लिवर्णनं चक्रे । सोऽपि प्राग्जन्मानुरागात् तां वरीतुं कुम्भनृपपार्श्वे स्वदूतं प्रेषितवान् ।। श्रीमल्लिरपि तेषां षण्णामपि राज्ञां नेसुहृदां प्रतिबोधमवधिना ज्ञात्वाऽशोकवनिकायां स्वसौधस्याऽपवरकस्य मध्ये रत्नपीठप्रतिष्ठितामात्मनः प्रतिकृतिं स्वर्णमयीं नानारत्नखचितां तालुप्रदेशे च सच्छिद्रां स्वर्णकमलपिधानां रम्यतरां सजीवामिव कारयामास । प्रतिमापवरकस्य चाऽग्रभित्तौ षट्द्वाराणि सजालककपाटानि कारितवती । प्रतिमापृष्ठभित्तौ च छिद्रमेकं कारितमस्ति । तेन छिद्रेण प्रतिदिनमसौ सर्वाहारपिण्डीप्रतिमायास्तालुछिद्रे क्षेपयति, स्थगयति च स्वर्णकमलपिधानेन च छिद्रम् ।। इतश्च तैः दूतैः कुम्भनृपस्याग्रतो वर्णितः स्वः स्वः स्वामी । याचिता च श्रीमल्लिः । राज्ञापि — देवा अपि नाप्नुवन्ति मत्कन्यां किमुत ते नृपशव इत्युदीर्य I Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234