________________
त्रिषष्टिशलाकापुरुषचरित्रम्
वैश्रवणस्यापि जीवो वैजयन्तायुत्वा हस्तिनापुरेऽदीनशत्रुर्नाम नृपः सम्पन्नोऽस्ति । इतश्च श्रीमल्लेरनुजेन मल्लनाम्ना स्वावासे कारिता चित्रशालिका । चित्रकराणां च मध्ये एकाङ्गदर्शनात् सर्वाङ्गलेख्यलब्धिमानेकश्चित्रकरोऽस्ति । तेन जवनिकान्तःस्थितायाः श्रीमल्लेः पादाङ्गुष्ठो दृष्टः । ततः सर्वाङ्गोपाङ्गसहितं तद्रूपं तेन यथावस्थितं तत्र लिखितम् । यदा च तत्र क्रीडितुं मल्लः समायातस्तदा चित्रस्थां मल्लिमालोक्य सहसैव लज्जितोऽपसृतः । ततो धात्र्या सम्यग् निरूप्य प्रोक्तम्- देव ! चित्रप्रतिकृतिरियं मान्यथा सम्भावयतु स्वामीति । ततः कुपितेन मल्लेन तच्चित्रकारकस्य शिल्पिनः करसन्दंशकोऽकर्त्यत निर्वासितश्च स्वरात् । स चक्रमेण गतो हस्तिनापुरे। अदीनशत्रुणा तन्मुखादखिलमपि श्रीमल्लिससत्त्वं रूपप्रभृतिकं स्वरूपमधिगतम्। सोऽपि प्राग्जन्मानुरागप्रभावविवशस्तां वरीतुं कुम्भनृपपार्श्वे प्रजिघाय स्वदूतम् ।।
१४६
अभिचन्द्रजीवोऽपि वैजयन्ताच्युत्वा काम्पिल्यपुरे जितशत्रुर्नाम नृपो जातोऽस्ति। मिथिलायां च चोक्षा नाम परिव्राजिकाऽन्तः पुरस्त्रीणां स्वधर्ममुपदिशन्ती मल्लिस्वामिन्या निर्जित्य निर्वासिता । सा च काम्पिल्ये गत्वा जितशत्रुनृपस्य पुरः प्रसङ्गागतं श्रीमल्लिवर्णनं चक्रे । सोऽपि प्राग्जन्मानुरागात् तां वरीतुं कुम्भनृपपार्श्वे स्वदूतं प्रेषितवान् ।।
श्रीमल्लिरपि तेषां षण्णामपि राज्ञां नेसुहृदां प्रतिबोधमवधिना ज्ञात्वाऽशोकवनिकायां स्वसौधस्याऽपवरकस्य मध्ये रत्नपीठप्रतिष्ठितामात्मनः प्रतिकृतिं स्वर्णमयीं नानारत्नखचितां तालुप्रदेशे च सच्छिद्रां स्वर्णकमलपिधानां रम्यतरां सजीवामिव कारयामास । प्रतिमापवरकस्य चाऽग्रभित्तौ षट्द्वाराणि सजालककपाटानि कारितवती । प्रतिमापृष्ठभित्तौ च छिद्रमेकं कारितमस्ति । तेन छिद्रेण प्रतिदिनमसौ सर्वाहारपिण्डीप्रतिमायास्तालुछिद्रे क्षेपयति, स्थगयति च स्वर्णकमलपिधानेन च छिद्रम् ।।
इतश्च तैः दूतैः कुम्भनृपस्याग्रतो वर्णितः स्वः स्वः स्वामी । याचिता च श्रीमल्लिः । राज्ञापि — देवा अपि नाप्नुवन्ति मत्कन्यां किमुत ते नृपशव इत्युदीर्य
I
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org