________________
त्रिषष्टिशलाकापुरुषचरित्रम्
१४५ सञ्जातोऽस्ति । तस्यां च पुर्यां नयो नाम श्रावकः समुद्रे वणिज्यार्थं गतः । तदानीं च श्रावकत्वविषये शक्रेण तदीया प्रशंसा कृता । ततोऽसहमानेन देवेनैकेन समेत्य वहनं व्याकुलीकृतम् । भणितश्च नयश्रेष्ठी- यदि जिनधर्मं विमुञ्चसि तदा क्षेमेण त्वद्वहनमुत्तारयामीति । तथापि न चलितोऽसौ । ततः प्रत्यक्षीभूय शक्रप्रशंसास्वरूपं कथयित्वा कुण्डलचतुष्टयं च तस्य दत्त्वा गतो देवः । क्षेमेण प्राप्तो मिथिलां श्रेष्ठी। ढौकितं कुम्भनृपस्य कुण्डलद्वयम् । राज्ञापि समर्पितं श्रीमल्लेः । विक्रीतभाण्डश्च चम्पायां गतः श्रेष्ठी । समर्पितं चन्द्रच्छायनृपस्य द्वितीयं कुण्डलयुग्मम् । कथिता च प्रसङ्गागता तस्याग्रे श्रीमल्लिरूपवार्ता श्रेष्ठिना । तेनापि राज्ञा प्राग्भवानुरागविह्वलेन तां वरीतुं कुम्भनृपपार्श्वे प्रहितः स्वदूतः ।।
पुरणजीवोऽपि वैजयन्ताच्युत्वा श्रावस्त्यां रुक्मीनाम नृपो जातोऽस्ति । तस्य धारिणी पट्टराज्ञी । अन्यदा राज्ञा निजोत्सङ्गस्थां स्वपुत्रीं धारयता पृष्टः कञ्चुकी । यादृशी मत्पुत्रिकायाः स्नानोपकरणसामग्री विभूतिश्च तादृशी यद्यन्यस्याः कस्याश्चिदस्ति तदा वदेति । तेनोक्तम्
बहुमान एव मूर्द्धा-भिषिक्ततां वहतु गुणगणेष्वेकः । अगुणेऽपि गुणीति मतिः, स्फुरति जने यत् प्रसादेन ।।१९८ ।। (आर्या)
यदि गुणपक्षपाती महाराजः पृच्छति तदा कुम्भनृपपुत्र्याः श्रीमल्लेर्यादृक् रूपं वैभवं चास्ति तादृक् सहस्रांशेनापि नान्यस्या इति । रूक्म्यपि प्राग्जन्मानुरागपरवशस्तां वरीतुं कुम्भनृप समीपे स्वदूतं प्राहिणोत् ।।
वसुजीवोऽपि वैजयन्ताङ्ग्युत्वा वाराणस्यां शङ्खो नाम नृपो जातोऽस्ति । इतश्च श्रीमल्लेः कुण्डलद्वयी सन्निवेशाद् विघटिता । ततो राज्ञा समादिष्टाः सौवर्णिकाः समारचयतेति । तैरुक्तम्- देव ! दिव्याभरणस्याऽस्य समारचने नाऽस्माकं योग्यतेति। ततः कुम्भनृपेण कुपितेन निर्वासितास्ते सर्वेऽपि गता वाराणस्याम् । प्रसङ्गागतं च तैरपि कृतं राज्ञः पुरः श्रीमल्लिरूपवर्णनम् । तेनापि प्राग्भवानुरागरक्तमनसा तां वरीतुं प्रेषितः कुम्भनृपसमीपे स्वदूतः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org