SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १४४ त्रिषष्टिशलाकापुरुषचरित्रम् शास्त्रज्ञानतपःशमेन्द्रियजयप्रायैर्गुणेोरवम् यत्राऽयुर्मुनयः स कुत्र समयः काऽयं शठैकालयः । सम्बन्धोऽपि न यत्र चेतसि जनैः श्रोतादिको गुण्यते लुब्धैः....मन्त्रतन्त्रशकुना जीवा.....केवलम्।।१९७ ।।(शार्दूलविक्रीडितम्) अनेनैव वैराग्येण भावितमनाः शीघ्रमेव बलभद्रं राज्ये न्यस्य वरधर्ममुनिपार्श्वे तैरपि षड्भिः समं प्रव्रजितः । सप्तापि समानभावनाः सन्तः सदैवाऽनुष्ठानं कुर्वन्ति । परं महाबलो विशिष्टतरफलार्थी पारणदिने रोगाद्युत्तरेण न करोति पारणकम्, तप एव करोति । एवं मायाविना महाबलेनाऽधिकतरं तपः कुर्वताऽपि स्त्रीवेदं कर्मोपार्जितम्। अर्हद्भक्तयादिभिस्तीर्थकरनामकर्म चोपार्जितम् । चतुरशीतिपूर्वलक्षायुषस्ते सप्तापि कृतानशना मृत्वा वैजयन्तविमाने देवा जाता ।। जम्बूद्वीपेऽस्मिन्नेव भरतार्द्ध मिथिलायां पुर्यां इक्ष्वाकुवंश्यः कुम्भो राजा । प्रभावती पट्टराज्ञी । फाल्गुनश्वेतचतुर्ध्यामश्विन्यां वैजयन्ताद् महाबलनृपजीवश्च्युत्वा प्रभावत्याः कुक्षाववतीर्णः । प्रभावतीदेव्याश्च माल्येषु शयितुं दोहदो जातः । पूरितश्च देवैः । मार्गशुक्लैकादश्यामश्विन्यां प्राग्जन्मकृतमायाजनितस्रीवेदत्वाचतुर्दशस्वप्नसूचिततीर्थकरजन्मा सा कुम्भलाञ्छना नीलवर्णा पञ्चविंशतिधनूचा पञ्चपञ्चाशद्वर्षसहस्रायुर्ज्ञानत्रयधरा सर्वाद्भुतलक्षणा जाता कन्या । जन्मोत्सवश्च प्राग्वत् । मातुर्माल्यदोहदाद् मल्लिरिति कृतं नाम । प्राप्ता च तारुण्यम् ।। इतश्चात्रैव साकेतेऽचलजीवो वैजयन्ताच्युत्वा प्रतिबुद्धिर्नाम नृपो जातः । तस्य च पद्मावती भार्या । अन्यदा तया समं राजा दृष्टप्रत्ययाया नागप्रतिमायाः पूजार्थं गतः। तत्र पुष्पमण्डपिकां पुष्पमुद्गरं स्वां च प्रियां प्रेक्ष्य सुबुद्धिनामानं पचिवं प्रोवाच- इदृग् रत्नत्रयं क्वाऽप्यस्ति नो वेति । तेनोक्तम्- कुम्भभूपतेर्यादृशी कन्या मल्लिनाम्नी तादृक् त्रैलोक्येऽपि नास्तीति । ततः प्रतिबुद्धिनृपेण मल्लिं वरीतुं प्रहित: कुम्भनृपपार्श्वे स्वदूतः ।। | इतश्च धरणजीवोऽपि वैजयन्ताच्युत्वा चम्पायां चन्द्रच्छायो नाम नृपः Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy