SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् १४३ ।।। श्रीमल्लिनाथचरित्रम् ।।। भूयादुरन्तभववल्लिविकतनाय, देवः सुदर्शनधरस्तव मल्लिनाथः । सन्नन्दकं नरकभेदकरं चरित्रम्, स्त्रीत्वेऽपि यस्य पुरुषोत्तमतां शशंस ।।१९५ ।। (वसन्ततिलका) जम्बूद्वीपेऽपरविदेहे सलिलावत्यां विजये वितशोकायां पुर्यां बलो राजा । धारिणी पत्नी । तयोः पुत्रो महाबलः । स चैकस्मिन्नेव दिने पित्रा कन्यानां पञ्चशतानि कमलश्रीप्रभृतीनि परिणायितः । अचल-धरण-पूरण-वसु-वैश्रवणा-ऽभिचन्द्राख्याः षट् सुहृदा जाताः कुमारमहाबलस्य । अन्यदा नृपस्याऽऽरामे समवसृतः सूरिरेको महाज्ञानी। गतस्तद्वन्दनाय बलनृपः । सूरिदेशनया जातसंवेगेनाऽपि पित्रा बालो मे महाबलकुमारः कथमसौ मां विना भविष्यतीति कृता चिन्ता । ततो विज्ञातसकल्पेन सूरिणा प्रोक्तम् तिरश्चामज्ञानां वनवसतिभाजां जलतृणो, पनेता कस्तेषां क इव शरणं प्राप्तविपदाम्। परं तेऽपीक्ष्यन्ते समुपचितदेहाः प्रमुदितास्ततः चिन्ता चान्ताः किमिति मतिमन्तोऽपि मनुजाः ।।१९६ ।। (शिखरिणी) इत्याकर्ण्य छिन्नविकल्पस्तत्रैव महाबलं राज्ये समादिश्य प्रव्रजितः । तपस्तप्त्वा घातितदुःखक्षीणाष्टकर्मा शर्माद्वैतपदं समाससाद । महाबलनृपोऽपि राज्यं पालयति। तस्य च कमलवत्यां पत्न्यां बलभद्रो नाम जातः पुत्रः । प्राप्त तारुण्यश्च स्थापितोऽसौ यौवराज्ये । अतिक्रान्ते च कियत्यपि काले षड्भिर्मित्रैः सममेकदा बहिर्गच्छन् जनैः पर्युपास्यमानः पाखण्डिनमेकं दृष्ट्वा महाबलनृपश्चिन्तितवान् Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy