________________
१४२
त्रिषष्टिशलाकापुरुषचरित्रम्
कुमारस्य यौवराज्यम् । ललितमित्रोऽपि पराभव इति विरक्तो घोषसेनमुनिपार्श्वे प्रव्रज्य तपश्च तप्त्वा खलवधं प्रति कृतनिदानोऽनशनेन मृत्वा सौधर्मे देवो जातः । । खलोऽपि भवं भ्रान्त्वा जम्बूद्वीपे वैताढ्ये सिंहपुरे विद्याधरेन्द्रः प्रह्लादनाम (- मा) षड्विंशतिधनू : पञ्चषष्टिवर्षसहस्रायुः प्रत्यर्द्धचक्री जातः ।।
अत्रैव भरताद्धे वाराणस्यामग्निसिंहो राजा । जयन्ती शेषवती च तस्य द्वे भार्ये । ब्रह्मलोकाद् वसुन्धरजीवश्च्युत्वा जयन्तीकुक्षाववतीर्णः । इभेन्दू वृषभः सरः इति चतुःस्वप्नसूचितबलभद्रजन्मा पुत्रो जातः । कृतं च नन्दन इति तस्य नाम । ललितमित्रजीवोऽपि सौधर्माच्युत्वा शेषवतीकुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्नीरत्नसञ्चय इति सप्तस्वप्नसूचितार्द्धचक्रिजन्मा पुत्रो जातः । कृतं च दत्त इति तस्य नाम । तौ च गौरश्यामौ तालगरुडध्वजौ षड्विंशतिधनूच्चौ द्वौ स्नेहेन वर्तेते ।।
एकदाग्निसिंहनृपस्याऽऽलानशालायामैरावणसदृशहस्तिनं दृष्ट्वा कलहकौतुकी नारदः प्रह्लादपार्श्वे गतः । सत्कृत्य तेन महत्या प्रतिपत्त्या दृष्टं किमपि क्वाप्याश्चर्यमिति पृष्ट:- तेनोक्तम् - वाराणस्यामग्निसिंहस्य नृपस्य हस्तिशालायामैरावणतुल्यहस्त्यस्तीति । तच्छ्रुत्वा प्रह्लादेन प्रहितः स्वदूतस्तदानयनायाऽग्निसिंहसमीपे । आनन्ददत्ताभ्यां तिरस्कृतो दूतः । ततः कोपकम्प्रप्रह्लादः सर्वसन्नाहेन गतः सहसैव वाराणसीं प्रति । तावप्यागतौ सम्मुखम् । युध्यमानानां च तेषां क्षीणान्यायुधानि । क्षिप्तं प्रह्लादेन चक्रम् । तेनैव चक्रेण दत्तश्चिच्छेद प्रह्लादमुर्द्धानम् । दत्तशिरसि च पपात पुष्पवृष्टिः । जयत्यर्द्धचक्री दत्त इत्युद्युष्टं देवमागधैः । साधितमनेन भरतार्द्धम् । व्यावर्तमानेन जङ्घां यावदुत्पाटिता मगधेषु कोटिशिला ।।
1
I
कौमारे वर्षाणां द्वे शते, मण्डलिकत्वे पञ्चाशत्, दिग्जये तदेव । राज्ये पञ्चपञ्चाशत् सहस्रा सप्तशती च । सर्वायुरस्य षट्पञ्चाशत्सहस्राः । स्वायुः प्रान्ते मृत्वा पञ्चमीं पृथ्वीं प्राप्तवान् । नन्दनोऽपि भ्रातृशोकाद् भुवनशोचमुनिपार्श्वे प्रव्रज्य केवली च भूत्वा पञ्चषष्ट्यब्दसहस्रायुः सिद्धः ।।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org