________________
१४१
त्रिषष्टिशलाकापुरुषचरित्रम् क्षत्रियदंष्ट्राश्च स्थाले निक्षिप्य परशुरामेण धृताः सन्ति । एकदा परशुरामेण कुतो मे मृत्युरिति पृष्टो नैमित्तिकः । तेनोक्तम्- यो दंष्ट्रा एताः पायसीभूताः सतीभॊक्ष्यते स ते वधक इति। तं चार्थं परिज्ञातुं परशुरामेण स्वशस्त्रागारे पुरः स्थापितक्षत्रियदंष्ट्रास्थाले सिंहासने नित्यं नित्यमुपवेश्यते । भोक्तुं समायातोऽभिनवोऽतिथिः ।।
इतश्च प्राप्ततारुण्यस्य सुभूमस्य मेघनादो नाम विद्याधरः स्वं (स्वां) कन्यां दत्त्वा स्वयं च तस्यैव सेवको जातः। अन्यदा सुभूमेन भूमिगृहस्थेन स्वमाता पृष्टा। किमेतावानेव जीवलोकोऽयमुताऽन्योऽप्यस्तीति । ततो जनन्या परशुरामकृतो राज्यापहारः पत्युभृत्युश्च सव्यक्तिकं कथितस्तस्य । तत: सुभूमः कुपितो गतो हस्तिनापुरे। शस्त्रागारसिंहासने चोपविश्य पायसीभूतास्ताः क्षत्रियदंष्ट्राः सर्वा अपि बुभुजे । तद्रक्षकान् ब्राह्मणांश्च हतवान् । तद्वधादभिधावितः सक्रोधः परशुरामः । प्रक्षिप्तः क्षिप्रं तं प्रति परशुः । स च जातो विफल: । सुभूमेन तु दंष्ट्रास्थालमुत्पाट्य चक्रवत् प्रक्षिप्तम् । तेन च्छिन्नमौलिम॑तः परशुरामः । जातः सुभूमश्चक्री । साधितं षड्खण्डमपि भरतक्षेत्रम् । एकविंशतिवारान् निर्माहना कृता मेदिनी पितृवैरात् । तेन कृतश्च मेघनादो वैताढ्यश्रेणिद्वयनायकः । अस्य च कौमारे वर्षाणां सहस्रपञ्चकम्। तदेव मण्डलिकत्वे । पञ्चशती च दिग्जये । पञ्चशती न्यूनं लक्षस्याऽर्द्धं चक्रित्वे। एवं षष्टिवर्षसहस्राः सर्वायुरस्य । अन्ते च क्रूरतरकर्मा महापातकी सन् मृत्वा सप्तमी पृथ्वी प्राप्तवानिति।।
। ।। अरतीर्थे नन्दन-दत्त-प्रह्लादानां चरित्रम् ।।।
जम्बूद्वीपे प्राग्विदेहे सुसीमायां वसुन्धरो राजा राज्यं प्रोज्झ्य सुधर्ममुनिपार्श्वे . प्रबजितः। तपस्तप्त्वा मृत्वा च ब्रह्मलोके देवो जातः ।। " जम्बूद्वीपे भरताद्धेऽत्रैव शीलपुरे मन्दिरधीरो राजा, पुत्रो ललितमित्रः । अयमन्यायीति राज्ञो निवेद्य खलनाम्ना मन्त्रिणा निर्वासितः पुरात् । दत्तमन्यस्य
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org