________________
त्रिषष्टिशलाकापुरुषचरित्रम्
भगवन् ! कुतः सुतारायां मेऽनुराग इति ।।
केवलिना सत्यभामाभववृत्तान्तः सविस्तरं कथितः । अमिततेजसोऽपि श्रीषेणाद्याः प्राग्भवा आगामिनश्च श्रीशान्तिनाथभवं यावत् सर्वे सविस्तरं कथिताः । श्रीविजयश्च श्रीशान्तिनाथस्य प्रथमः पुत्रः प्रथमश्च गणधरो भविष्यति इति कथितम् । प्रतिपन्नोऽमिततेजः श्रीविजयाभ्यां श्रावकधर्मः । अशनिघोषेण गृहीतं व्रतम् । श्रीविजयमाता स्वयम्प्रभाऽपि प्रव्रजिता । केवलिनं नत्वा गताः सर्वेऽपि स्वं स्वं स्थानम् ।।
११५
अन्यदाऽमिततेजः श्रीविजययोर्नन्दनवनगतयोर्ज्ञानिना षड्विंशतिदिनावशेषमायुः कथितम् । तत स्वं स्वं स्थानं गत्वा चैत्याऽष्टाह्निकादानादिपूर्वं राज्यं परित्यज्याऽभिनन्दनजगन्नन्दनयोः पार्श्वे प्रव्रज्य द्वाभ्यामप्यनशनं गृहीतम् । श्रीविजयेन च पितृवैभवादाऽऽत्मवैभवं हीनं स्मृत्वाऽर्द्धचक्रित्वलाभाय निदानं कृतम् । समाधिना च द्वावपि मृत्वा प्रणते कल्पे विंशतिसागरोपमायुष्कौ देवौ जातौ ।।
I
1
जम्बूद्वीपे पूर्वविदेहे रमणीयविजये शुभायां पुर्यां स्तिमितसागरो राजा । वसुन्धराऽनुद्धरा च द्वे भार्ये । प्रणतादमिततेजो जीवश्च्युत्वा वसुन्धरायाः कुक्षाववतीर्णः । इभेन्दू वृषभः सर इति चतुःस्वप्नसूचित - बलभद्रजन्मा समये जातः सुतः । कृतमपराजित इति तस्य नाम । श्रीविजयजीवोऽपि प्रणताच्युत्वाऽनुद्धरायाः कुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्निरत्नसञ्चय इति सप्तस्वप्रसूचितार्द्धचक्रिजन्मा समये जातः सुतः । कृतमनन्तवीर्य इति नाम । प्राप्तौ द्वावप्यन्योन्यप्रीतिं यौवनं च । राजापि स्तिमितसागरस्तुरगवाह्यालीं गतः सन्नुद्यानं प्रविष्टः तत्र दृष्टः साधुः । प्रतिबोधितस्तेन धर्मदेशनया । ततोऽनन्तवीर्यं विन्यस्य राज्ये स्वयं स्वयम्प्रभमुनिसमीपे प्रव्रजितः । कृतमनुष्ठानप्रभृतिकम् । अन्ते पुनविराधितश्रामण्यो मृत्वा जातश्चमरेन्द्रः ।।
Jain Educationa International
अनन्तवीर्योऽपि अपराजितेन समं राज्यं पालयन्नेकेन विद्याधरेण. बर्बरीचिलातीति विद्याद्वयं शिक्षितः । ते च सिद्धे सत्यौ रम्भादिभ्योऽप्यभ्यधिकं गीतं नृत्तं(-तं) च कुरुतः । साधिते विधिपूर्वमनेन । कुरुतश्च ते तदग्रे प्रत्यहं सङ्गीतम् ।
For Personal and Private Use Only
www.jainelibrary.org