SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११६ त्रिषष्टिशलाकापुरुषचरित्रम् तयोश्च तत्प्रेक्षणक्षणनिरीक्षणाक्षिप्तयोरेकदाभ्यागतो नारदः । ताभ्यां च न तथा सत्कृतः । ततः कुपितो निर्गत्य गतो वैताढ्ये दमितारेनूपस्य पार्श्वे । सत्कृत्य तेन महत्या प्रतिपत्त्या दृष्टं किमपि क्वाप्याश्चर्यमिति पृष्टः । तेनोक्तम्- शुभायां पुर्यामनन्तवीर्यस्य नृपस्य गृहे सम्प्रत्यप्रतिमं यादृग् बर्बरीचिलात्यो सङ्गीतमभिनयतस्तादृग् देवलोकेऽपि नास्तीति । ततो दमितारिणापि प्रहित: स्वदूतस्तदानयनायानन्तवीर्यसमीपे । अनन्तवीर्यापराजितयोश्च प्राग्जन्माराधिता इव सिद्धाः सन्ति भूयस्यो विद्याः । दूतेन याचिते चेट्यौ । ततोऽनन्तवीर्यापराजितौ चेटीरूपौ भूत्वा तेन समं गतौ । प्रारब्धं स्वप्रतिबद्धमेव नाटकम् । पठितमुपाध्यायस्थित्या जल्पन्तोऽद्भुतमाक्षिपन्ति हृदयं, केचित्क्रियायां न तु, प्रीणन्ति क्रियया च केऽपि सरसाः स्युनॆव वाचा पुनः । वाचापि क्रिययापि येऽतिसुभगाः, प्रारम्भनिर्वाहयोये चैकस्थितयः क्व ते सुकृतिनो, द्वित्रा अपि क्ष्मातले ।।१७१।। (शार्दूलविक्रीडितम्) अन्यञ्चवाग्मी कश्चिदुदाररूपकलितः, कश्चित्प्ररोहन्मतिप्रागल्भ्यप्रसरोऽस्ति कोऽपि सुकृती, दाक्षीण्यवान् कश्चन । एकैकेन गुणेन लब्धमहिमा, भूयान् जनः प्राप्यते, सर्वैरेव गुणैर्नरः परिचितो, नानन्तवीर्यात् परः।।१७२।। (शार्दूलविक्रीडितम्) शृङ्गारैकरसा रसातलभुजो, भूयस्तमाः क्षत्रिया, द्वित्रास्त्यागकलासु शौर्यसुरभिः, कश्चिद् भवेद् वा न वा। आमूलाद् गुणसञ्चयेन घटितो, राजीववद् भानुवत्, तेजोधाम न नाम सोऽस्ति भुवने, योऽनन्तवीर्यात् परः ।।१७३।। (शार्दूलविक्रीडितम्) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy