________________
११४
त्रिषष्टिशलाकापुरुषचरित्रम् विस्मितो राजा किमेतदिति । ततस्ताभ्यामभिहितम्- आवां विद्याधरपतेरमिततेजसोऽनुचरौ । तीर्थवन्दनार्थं गच्छद्भ्यामावाभ्यां हा नाथ ! श्रीविजय ! हा बान्धव ! अमिततेज ! इत्यादीन् स्वस्वामिजामिविलापान् श्रुत्वा शब्दानुसारेण गत्वा दृष्टोऽशनिघोषः सुतारामपहरन् । यावदावामुत्खातखड्गौ तं हन्तुमुद्यतौ तावत्सुतारया प्रोक्तम्- भो भो विद्याधरौ ! श्रीविजयनृपः प्रतारिण्या वञ्चितः सन् स्ववधायोद्यतोऽधुना वर्तते। ततस्तदन्तिकं गत्वा तद्रक्षणे यत्नं कुरुतम् । न तं विनाऽहमपि जीविष्यामीति ।।
ततश्चिन्तापरः सन् श्रीविजयस्ताभ्यामात्मनैव सह नीतो वैताढ्ये । कृता सगौरवं प्रतिपत्तिरमिततेजसा। दत्ताः प्रभूताः स्वविद्याः। सम्मान्य च स्वपुत्रैः समं प्रहितः पोतनपुरे। अमिततेजा अपि महाज्वालां विद्यां साधयित्वा श्रीविजयं चात्मना सह नीत्वा गतश्चमरचञ्चायाम्। अशनिघोषश्रीविजययोर्जातं युद्धम्। श्रान्तः श्रीविजयः। प्रवृत्तो योद्धुममिततेजाः। प्रणश्याऽशनिघोषोऽपाग्भरतार्द्धसीमाद्रौ तत्कालोत्पन्नकेवलज्ञानस्याचलबलमुनेः समवसृतस्य शरणं गतः। तत्र च ज्ञानिनोऽतिशयादप्रभवन्ती विद्या व्यावृत्याऽमिततेजसः स्वरूपं कथितवती। अमिततेजःश्रीविजयौ गतौ तत्र ज्ञानिनं वन्दितुम्। मारीचोऽशनिघोषजननी च पृष्ठतः सुतारां गृहीत्वा तत्रागतौ। अभिनन्दन-जगन्नन्दन-ज्वलनज्वट्यर्ककीर्तिप्रभृतयोऽपि चारणर्षयस्तत्रायाताः । मुनिना कृता देशना
प्राविण्यं विनये नये निपुणता, प्रारब्धनिर्वाहणे, वैचक्षण्यमहर्निशं रसिकता, दानादिके कर्मणि । स्वश्लाघासु पराङ्मुखत्वमपर-स्तुत्यामनीर्ष्यालुता, दाक्षिण्यप्रकृतित्वमुत्तमतम-श्रीदायिनोऽमी गुणाः ।।१७०।।
(शार्दूलविक्रीडितम्) इत्यादिदेशनया प्रतिबुद्धाः सर्वे । अशनिघोषः समुत्थाय श्रीविजयामिततेजसौं सविनयं प्रणम्य स्वाविनयं क्षमयित्वा सुतारां समर्पयामास । पप्रच्छ च केवलिनम्।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org