________________
त्रिषष्टिशलाकापुरुषचरित्रम्
११३ ततोऽन्यतरमन्त्रिणा प्रोक्तम्- देव ! नैमित्तिकेन पोतनपुरस्वामिनः सामान्येनारिष्टं दृष्टम्, न तु श्रीविजयस्य । तस्मादन्यः सप्ताहं यावन्नृपः सूत्र्यते । नैमित्तिकेन चिन्तितम् । महदेव मतिज्ञानमत एवागमे प्रथममस्योपन्यासः ।।
अस्त्येव शास्त्रं सकलार्थदर्शि, विशेषबोधस्तु धियैव पुंसः । रूपोपलब्धिक्षममक्षि सम्यक,
प्रमाणमन्तःकरणं तु तत्र ।।१६९।। (उपजातिः) राज्ञा च क्षणं विमृश्योक्तम्- महामात्य ! निःप्रत्यूह एव भवदूहः । कथमहं परमात्मप्राणरक्षणार्थमन्यं प्राणैर्वियोजयामि । तेनोक्तम्- तर्हि यक्षोऽभिषिच्यताम्। यदि दिव्यशक्त्या स स्वस्योपसर्ग स्खलयिष्यति ततो भव्यम् । अथ न, तथापि पापं न कस्यापीति । देवश्च कृतपौषधस्तिष्ठतु देवगृहे । राज्ञा च कृतं तथा । सप्तमे चाह्नि निर्दिष्टे समये तडत्कारबधिरिताखिलजनं सहसैव वज्रं यक्षस्य मूर्ध्नि निपतितम् । अन्तःपुरादिना च लोकेन नैमित्तिकस्य शिरसि कृता रत्नस्वर्णादिभिर्वृष्टिः । राज्ञा चं दत्तं तस्य पद्मिनीखण्डपत्तनम् । विसृष्टश्च स सगौरवम् । यक्षप्रतिमा च कारिता नव्या । तदर्थं चाऽयमुत्सवः पौरैः प्रारब्ध इति ।।।
अमिततेजा अपि कृतमाङ्गल्यव्यवहारः स्थित्वा चिरं तमनुज्ञाप्य गतः स्वं स्थानम् । अन्यदा श्रीविजयनृपः सुतारया सह गतः क्रीडावने । तदा च कपिलजीवोऽशनिघोषः प्राग्जन्मसंस्कारादनुरागं वहन् विद्याबलात् प्लवमानं स्वर्णवर्णं मृगं विचक्रे । सुतारयापि तद्ग्रहणकृते श्रीविजयोऽभ्यर्थितः । सोऽपि स्त्रीग्रह इति गतो ग्रहीतुं प्राप्तश्च दूरम् । ततोऽशनिवेगेन हृता सुतारा । प्रतारिण्या च विद्यया सर्पदष्टा व्याहरन्ती महता शब्देन दर्शिता कृत्रिमा सुतारा । वलितः श्रीविजयः । कृतं मणिमन्त्रादिकम् । क्षणेन विपन्ना सा । श्रीविजयश्च मूर्छितः संश्चन्दनायुपचारेण जातः स्वस्थः । तां चादाय स्वयमप्यारूढश्चितायाम् । प्रज्वालितो ज्वलनः । तदानीं चागतौ द्वौ विद्याधरौ । विध्यापिता ताभ्यां चिता । पलायिता साट्टहासं प्रतारिणी।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org