SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरित्रम् एवं सत्येकदा रथनूपुरोद्यानेऽभिनन्दन जगन्नन्दन-ज्वलनजटिनस्त्रयो महर्षयः समवसृताः । गतोऽर्ककीर्तिर्गुरुं पितरं च वन्दितुम् । श्रुत्वा धर्मोपदेशं विरक्तोऽर्ककीर्तिरमिततेजसं पुत्रं राज्येऽभिषिच्य प्रव्रजितस्तत्पार्श्वे । विजहार च तैः समम् । त्रिपृष्ठे कालधर्मं प्राप्तेऽचलबलेन गृहीता प्रव्रज्या । त्रिपृष्ठपुत्रः श्रीविजयः पोतनपुरे राजा जातः । । ११२ एकदाऽमिततेजःक्ष्मापालः सुतारा श्रीविजयदर्शनार्थमुत्कण्ठितो गतः पोतनपुरे । तच्च नगरमुत्पताकं सोत्सवं दृष्ट्वाऽमिततेजसा श्रीविजयः कारणं पृष्टः । सोऽप्युवाचइतः प्रागष्टमे दिने नैमित्तिक एकः समेत्य पोतनपुरस्वामिशिरसि मध्याह्ने विद्युत्पतिष्यतीत्युवाच । मन्त्रिणा चैकेन सोल्लुण्ठमुक्तम्- दैवज्ञ ! त्वच्छिरसि तस्मिन् दिने किं किं पतिष्यतीति । तेनोक्तम् - रत्नस्वर्णवृष्टिः । मया मन्त्रिणं निवार्य ज्ञानसम्प्रदायमूलोत्पत्तिं सम्पृष्टः । तेनोक्तम्- अचलबलेन सममहमपि प्रव्रजितः । चिरकालमधीतं श्रुतम् । कर्मदोषात् प्रतिपतितोऽस्मीति । मयाऽप्यर्हदागमज्ञानं नाऽन्यथेति विचार्य रक्षोपायं मन्त्रिणः पृष्टाः । एकेनोक्तम् - यद्भावि तन्नाऽन्यथेति । तथा हि- विजयपुरे कदाचिदेको राक्षसः प्रवृत्तो मनुष्यभक्षणे । ततो राज्ञा पूजादिभक्तयतिशयात् परितोषितस्तथापि न विरमति । ततः महाकष्टेन प्रतिदिनमेकैकमनुष्याऽर्पणेन निवर्तितः सर्वोपद्रवात् । गोलकनामनिर्दिष्टमेकैकं मानुषं राजाज्ञया तस्य दीयते । एकदा रुद्रसोमाग्निशिखयोः सुतस्य शिखिनाम्नो वारकः समायातः । प्रवृत्ता क्रन्दितुमग्निशिखा । कृपया तुष्टानि प्रत्यासन्नानि कान्यपि भूतानि । तैरागत्योक्तम् - वृद्धे ! न तव सुतो विपत्स्यते, राक्षसाद् वयमाकृष्यानयिष्याम इति । स च नीतो राजमानुषै राक्षसान्तिकम् । भूतैश्चाकृष्यानीय चार्पितोग्निशिखायाः तया च पुनरपहारभयाद् गिरिगुहायां नीत्वा मुक्तः । तत्र सुप्तः सन्नजगरेण गिलितः । तस्माद् भाव्यस्यान्यथात्वं नास्ति । किञ्च - न वृत्तेन न वित्तेन, नार्चया न च चर्चया । न यन्त्रेण न मन्त्रेण, प्राणिनां त्राणमन्तकात् ।। १६८ ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003692
Book TitleTrishashti Shalaka Purush Charitram
Original Sutra AuthorN/A
AuthorJineshchandravijay
PublisherRander Road Jain Sangh
Publication Year2008
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy