Book Title: Trishashti Shalaka Purush Charitram
Author(s): Jineshchandravijay
Publisher: Rander Road Jain Sangh

View full book text
Previous | Next

Page 171
________________ १४२ त्रिषष्टिशलाकापुरुषचरित्रम् कुमारस्य यौवराज्यम् । ललितमित्रोऽपि पराभव इति विरक्तो घोषसेनमुनिपार्श्वे प्रव्रज्य तपश्च तप्त्वा खलवधं प्रति कृतनिदानोऽनशनेन मृत्वा सौधर्मे देवो जातः । । खलोऽपि भवं भ्रान्त्वा जम्बूद्वीपे वैताढ्ये सिंहपुरे विद्याधरेन्द्रः प्रह्लादनाम (- मा) षड्विंशतिधनू : पञ्चषष्टिवर्षसहस्रायुः प्रत्यर्द्धचक्री जातः ।। अत्रैव भरताद्धे वाराणस्यामग्निसिंहो राजा । जयन्ती शेषवती च तस्य द्वे भार्ये । ब्रह्मलोकाद् वसुन्धरजीवश्च्युत्वा जयन्तीकुक्षाववतीर्णः । इभेन्दू वृषभः सरः इति चतुःस्वप्नसूचितबलभद्रजन्मा पुत्रो जातः । कृतं च नन्दन इति तस्य नाम । ललितमित्रजीवोऽपि सौधर्माच्युत्वा शेषवतीकुक्षाववतीर्णः । सिंहाभिषेककुम्भाब्धिसूर्याग्नीरत्नसञ्चय इति सप्तस्वप्नसूचितार्द्धचक्रिजन्मा पुत्रो जातः । कृतं च दत्त इति तस्य नाम । तौ च गौरश्यामौ तालगरुडध्वजौ षड्विंशतिधनूच्चौ द्वौ स्नेहेन वर्तेते ।। एकदाग्निसिंहनृपस्याऽऽलानशालायामैरावणसदृशहस्तिनं दृष्ट्वा कलहकौतुकी नारदः प्रह्लादपार्श्वे गतः । सत्कृत्य तेन महत्या प्रतिपत्त्या दृष्टं किमपि क्वाप्याश्चर्यमिति पृष्ट:- तेनोक्तम् - वाराणस्यामग्निसिंहस्य नृपस्य हस्तिशालायामैरावणतुल्यहस्त्यस्तीति । तच्छ्रुत्वा प्रह्लादेन प्रहितः स्वदूतस्तदानयनायाऽग्निसिंहसमीपे । आनन्ददत्ताभ्यां तिरस्कृतो दूतः । ततः कोपकम्प्रप्रह्लादः सर्वसन्नाहेन गतः सहसैव वाराणसीं प्रति । तावप्यागतौ सम्मुखम् । युध्यमानानां च तेषां क्षीणान्यायुधानि । क्षिप्तं प्रह्लादेन चक्रम् । तेनैव चक्रेण दत्तश्चिच्छेद प्रह्लादमुर्द्धानम् । दत्तशिरसि च पपात पुष्पवृष्टिः । जयत्यर्द्धचक्री दत्त इत्युद्युष्टं देवमागधैः । साधितमनेन भरतार्द्धम् । व्यावर्तमानेन जङ्घां यावदुत्पाटिता मगधेषु कोटिशिला ।। 1 I कौमारे वर्षाणां द्वे शते, मण्डलिकत्वे पञ्चाशत्, दिग्जये तदेव । राज्ये पञ्चपञ्चाशत् सहस्रा सप्तशती च । सर्वायुरस्य षट्पञ्चाशत्सहस्राः । स्वायुः प्रान्ते मृत्वा पञ्चमीं पृथ्वीं प्राप्तवान् । नन्दनोऽपि भ्रातृशोकाद् भुवनशोचमुनिपार्श्वे प्रव्रज्य केवली च भूत्वा पञ्चषष्ट्यब्दसहस्रायुः सिद्धः ।। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234