Book Title: Sishupal Vadha
Author(s): Durgaprasad Pandit, Sivadatta Pandit
Publisher: Pandurang Jawaji
View full book text
________________
पञ्चदशः सर्गः।
३८७ कनीनिके ताभ्यामनुमितेऽनुमापिते ताने नयने यस्य तत्। 'तारकाक्ष्णः कनीनिका' इत्यमरः । सर्वमुखस्य रक्तत्वादिति भावः । बाणो नृपस्तस्य वदनं सकीलं कीलाकारच्छायासहितम् । परिधियुक्तमिति यावत् । सूर्यमण्डलमिव जगतो भिये भयाय उददीपि प्रजज्वाल । दीप्यतेः कर्तरि लुङि 'दीपजन-' इत्यादिना चिण्प्रत्यये तलुक् । अत्र नयनयोः स्वधावल्यत्यागेनारुण्यस्वीकारात्तद्गुणः । तत्सापेक्षत्वादौत्पातिकसूर्यमण्डलोपमासंकरः ॥ प्रविदारितारुणतरोग्रनयनकुसुमोज्वलः स्फुरन् । प्रातरहिमकरताम्रतनुर्विषजद्रुमोऽपर इवाभवद्रुमः॥४९॥
प्रवीति ॥ प्रविदारितेऽतिविकासिते अरुणतरे क्रोधादतिरक्ततरे अत एवोग्रे भयंकरे ये नयने ते एव कुसुमे ताभ्यामुज्वलो दीप्तः स्फुरन्स्वतेजसा दीप्य. मानः प्रातरहिमकरताम्रतनुः प्रभातार्कारुणविग्रहः प्रसिद्धो दुमो दुमाख्यो नृपः अपरो विषजगुम इवाभवदित्युत्प्रेक्षा रूपकसंकीर्णा ॥
अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् । कोपमरुदभिहतेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ ५० ॥
अनिशान्तेति ॥ अनिशान्तोऽनिर्वाणो वैरदहनो विरोधाग्निर्यस्य तेन अतः एवान्तरभ्यन्तरे आर्द्रतां सारस्यं विरहितवता त्यक्तवता । रहयतेः क्तवतुप्रत्ययः । कोपो मरुदिव तेनाभिहतः प्रज्वलितः तेन नरकात्मजेन वेणुदारिणा तरुण वृक्षेणेव भृशं जज्वले ज्वलितम् । भावे लिट् । उपमालंकारः॥
अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत । ग्रस्तशशधरमिवोपलसत्सितदन्तपति मुखमुत्तमौजसः ॥५१॥
अभीति ॥ किमप्यभिधित्सतोऽभिधातुमिच्छतः । दधातेः सन्नन्ताल्लटः शत्रादेशः । उत्तमौजसो नाम राज्ञः संबन्धि राहुवदनविकृतं व्यात्तत्वादाहुवक्रवत्करालम्, उपलसन्ती लक्ष्यमाणा सिता दन्तपतिर्यस्य तन्मुखं ग्रस्तशशधरमिव संदष्टचन्द्रमिव व्यभाव्यतातर्यंत । इत्युत्प्रेक्षा ॥ कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् । क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥५२॥
कुपितेति ॥ प्रथमं प्रागेव । अकुपितावस्थायामपीत्यर्थः । कुपितस्येवाकृतिर्मुखरागो यस्येत्युपमा । अरिचक्रभीषणं परबलभयंकरं दन्तवत्रं दन्तवक्रना. मानं राजानम् । अशनिदलितस्य वज्रहतस्याद्रितटस्य ध्वनिरिव ध्वनिर्यस्या तदित्युपमा अशनैः उच्चैर्ह सितमट्टहासः । क्रुद्धमसूचयत् । सर्वदा मुखरागस्य विशेषणादनुभावान्तरवेद्यः क्रुद्ध इत्यर्थः । अत्र कोपव्यञ्जकसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिरुपमासंकीर्णा ॥

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554